Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 06 मईमासः (हि.स.)।
नरेन्द्र मोदी निःस्वार्थसेवा, करुणा तथा मानवतायाः मूल्यम् अधोरेखयन् एकं संस्कृतसुभाषितं साझा कृतवान्। सः उक्तवान् यत् निःस्वार्थभावेन कृतं कार्यमेव वास्तविकमानवतायाः परिचायकम् अस्ति, यत् न केवलं व्यक्तेः आत्मिकसन्तोषं ददाति, अपितु समाजस्य कल्याणेऽपि महत्त्वपूर्णां भूमिकां निर्वहति।
प्रधानमन्त्री अद्य सामाजिकमाध्यममञ्चे एस इत्यत्र अलिखत् यत् निष्कामभावेन कृतात् कर्मणः अन्तःसुखस्य अनुभूतिः भवति तथा एतत् समाजमपि श्रेष्ठतरं करोति।
तेन एकं सुभाषितमपि सहकृतं यत् -
“अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा।
अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते॥”
अस्य सुभाषितस्य अर्थः अस्ति यत् सर्वेषां प्राणिनां प्रति मनसा, वाचा, कर्मणा च कस्यापि प्रकारस्य द्वेषभावः न भवेत्, सर्वेषां प्रति दयाया अनुग्रहस्य च भावना भवेत् तथा दानशीलता अपि धारणीया। एते गुणाः सर्वोत्तमाचाररूपेण प्रशस्यन्ते।
---------------
हिन्दुस्थान समाचार