वैश्विक अंतरिक्ष परिवर्तने भारतं सर्वस्मादग्रे : निधिखरे
नवदिल्ली, 08 मईमासः (हि.स)। भारतम् वैश्विकान्तरिक्षपरिवर्तने अग्रस्थानं धारयति तथा च अन्तरिक्षोद्योगे नवोन्मेषस्य निजीक्षेत्रस्य सहभागितायाश्च प्रमुखकेन्द्ररूपेण निरन्तरम् उदेति। भारतमण्डपम् इत्यत्र आयोजितायाः “अन्तरिक्षप्रणालीसञ्चालन” विषयकबैठक
35वीं आईएसओ टीसी बैठक को संबोधित करते निधि खरे


35वीं आईएसओ टीसी बैठक को संबोधित करते निधि खरे


नवदिल्ली, 08 मईमासः (हि.स)।

भारतम् वैश्विकान्तरिक्षपरिवर्तने अग्रस्थानं धारयति तथा च अन्तरिक्षोद्योगे नवोन्मेषस्य निजीक्षेत्रस्य सहभागितायाश्च प्रमुखकेन्द्ररूपेण निरन्तरम् उदेति।

भारतमण्डपम् इत्यत्र आयोजितायाः “अन्तरिक्षप्रणालीसञ्चालन” विषयकबैठकायाः उद्घाटनसत्रं सम्बोधयन्ती उपभोक्तृकार्यमन्त्रालयस्य सचिवा निधिखरे मानकविकासे वैश्विकसहयोगस्य महत्त्वं तथा अन्तरराष्ट्रीयान्तरिक्षमानकपारिस्थितिकतन्त्रस्य निर्माणे भारतस्य वर्धमानभूमिकां प्रकाशिता। तया उक्तं— “भारतस्य कृते अस्याः सभायाः आयोजनम् अत्यन्तगौरवस्य विषयः अस्ति, यतः वयं वैश्विकान्तरिक्षपरिवर्तनस्य अग्रणीस्थानं धारयामः।”

निधिखरे इत्यनया उक्तं यत् महत्त्वपूर्णसुधारैः तथा आईएन-एसपीएसीई इत्यस्य स्थापनया भारतसर्वकारेण उद्भवमानस्य अन्तरिक्षकेन्द्रस्य आधारशिला स्थापिता, यत्र नवोद्यमसंस्थाः स्थापितोद्योगाश्च समानरूपेण प्रफुल्लितुं शक्नुवन्ति। एतादृशैः वैश्विकसहयोगैः विशेषज्ञतया च विकसिताः मानकाः मानवतायै अन्तरिक्षं सुरक्षितं, सततं, समावेशात्मकं च कर्तुं साहाय्यं करिष्यन्ति।

अस्मिन् अवसरे भारतीयमानकविभागस्य महानिदेशकः संजयगर्ग अन्तरिक्षक्षेत्रे गुणवत्तायाः, सुरक्षायाः, वैश्विकस्पर्धाक्षमतायाश्च सुनिश्चितीकरणे मानकीकरणस्य महत्त्वपूर्णां भूमिकां प्रकाशितवान्। तेन उक्तं यत् बीआईएस् अन्तरिक्षोद्योगस्य परिवर्तमानावश्यकतानां पूर्त्यर्थं भारतीयमानकान् अन्ताराष्ट्रियरूपरेखाभिः सह अनुरूपं कर्तुं प्रयत्नशीलम् अस्ति।

तथैव पवनगोयनका भारतस्य अन्तरिक्षपारिस्थितिकतन्त्रस्य परिवर्तनात्मकविकासं नीतिसुधारैः निजीक्षेत्रस्य सहभागितया च प्रेरितम् इति प्रतिपादितवान्। तेन नवोन्मेषस्य संवर्धने, उद्योगविश्वासस्य वर्धने तथा वैश्विकान्तरिक्षअर्थव्यवस्थायां भारतस्य एकीकरणस्य सुलभीकरणे सुदृढमानकानां महत्त्वं विशेषतया निरूपितम्।

अस्मिन् कार्यक्रमे त्रयोदशदेशेभ्यः आगताः १३१ अन्ताराष्ट्रियप्रतिनिधयः सहभागीभूताः। तेषु विभिन्नराष्ट्रियमानकसंस्थानां प्रतिनिधयः, इसरो सहितान्ताराष्ट्रियान्तरिक्षसंस्थानां विशेषज्ञाः, अन्तरिक्षोद्योगसम्बद्धाः व्यक्तयः तथा शिक्षाविदः सम्मिलिताः आसन्।

---------------

हिन्दुस्थान समाचार