कृति सेननद्वारा इंडस्ट्रीमध्ये महिलानां स्थितिविषये निःसंकोचेन वार्ता
कृतिःसेनन इत्यस्याः अभिनेत्र्याः दीर्घकालात् प्रचलितस्य लैङ्गिकभेदभावस्य तथा पारिश्रमिकविषये असमानतायाः विषये स्पष्टतया स्वमतं प्रकाशितवती। सद्यः एव दत्ते एकस्मिन् साक्षात्कारमध्ये सा अवदत् यत् महिला-प्रधानासु चलचित्रेषु अद्यापि अभिनेत्र्यः नानाविध
कृति सैनन - फोटो सोर्स एक्स


कृतिःसेनन इत्यस्याः अभिनेत्र्याः दीर्घकालात् प्रचलितस्य लैङ्गिकभेदभावस्य तथा पारिश्रमिकविषये असमानतायाः विषये स्पष्टतया स्वमतं प्रकाशितवती। सद्यः एव दत्ते एकस्मिन् साक्षात्कारमध्ये सा अवदत् यत् महिला-प्रधानासु चलचित्रेषु अद्यापि अभिनेत्र्यः नानाविधानां भेदभावानां समक्षीकरणं कुर्वन्ति। निर्मातॄन् प्रश्नीकुर्वती सा उक्तवती यत् यदा व्यय-न्यूनिकरणस्य आवश्यकता भवति तदा सर्वप्रथमम् अभिनेत्रीणां पारिश्रमिके मोलभावः क्रियते, यद्यपि चलचित्रस्य व्ययस्य महान् अंशः पुरुषकलाकाराणां पारिश्रमिके एव व्ययितः भवति।

कृतिः उक्तवती— “चलच्चित्रोद्योगे धनसम्बद्धः संघर्षः सदा विद्यमानः आसीत्। यदा यदा व्यय-न्यूनिकरणस्य चर्चा भवति तदा तदा मुख्य-अभिनेत्र्याः पारिश्रमिकं न्यूनीकर्तुं प्रथमं प्रयासः क्रियते। एषः कश्चन अलिखितः नियमः इव जातः यत् पुरुषकलाकाराणां सुविधा तथा सौकर्यं अधिकं प्राधान्यं प्राप्नोति।” सा अपि उक्तवती यत् चलचित्रोद्योगे पितृसत्तात्मकवृत्तिः अद्यापि गभीरतया विद्यमाना अस्ति तथा समानतायै एषा मानसिकता परिवर्तनीया अत्यावश्यकम्।

अभिनेत्री स्वस्य प्रारम्भिकदिनानाम् एकं अनुभवम् अपि साझा कृतवती। सा उक्तवती यत् एकस्मै पुरुष-सहकलाकाराय, यः तस्याः अपेक्षया वरिष्ठः अपि न आसीत्, तस्यै अपेक्षया उत्तमा वाहनव्यवस्था प्रदत्ता आसीत्। कृतिः अवदत्— “विषयः वाहनस्य न आसीत्, अपितु समानसम्मानस्य आसीत्।” सा अवदत् यत् एतादृशीं मानसिकतां परिवर्तयितुं तथा महिलाभ्यः उत्तमानि पात्राणि निर्मातुं सा निर्मात्री भवितुं निश्चयम् अकरोत्।

कृतेः मतम् अस्ति यत् अद्यापि चलचित्रोद्योगे अभिनेत्रीणां कृते सशक्तकथानां तथा प्रभावशालिपात्राणां न्यूनता वर्तते, यतः प्रसिद्धाः पुरुष-अभिनेता महिला-प्रधानेषु चलचित्रेषु सहायकभूमिकाः स्वीकर्तुं प्रायः परिहरन्ति।

हिन्दुस्थान समाचार