'द नर्मदा स्टोरी' इत्यस्य दलं मध्य प्रदेशस्य मंत्रिणा धर्मेंद्र सिंहेन सहामिलत्
समग्रदेशे प्रदर्श्यमाना हिन्दी विशेषचलच्चित्रस्य द नर्मदा स्टोरी इत्यस्य दलं मध्यप्रदेशस्य संस्कृतिपर्यटनधार्मिकन्यासधर्मस्वमन्त्री धर्मेन्द्र सिंह लोधिना सह मेलनम् अकरोत्। अस्मिन् अवसरे स्थानीयकलाकारः शरद सिंह सहिताः चलच्चित्रसम्बद्धाः अन्ये सदस्
द नर्मदा स्टोरी - पोस्टर


समग्रदेशे प्रदर्श्यमाना हिन्दी विशेषचलच्चित्रस्य द नर्मदा स्टोरी इत्यस्य दलं मध्यप्रदेशस्य संस्कृतिपर्यटनधार्मिकन्यासधर्मस्वमन्त्री धर्मेन्द्र सिंह लोधिना सह मेलनम् अकरोत्। अस्मिन् अवसरे स्थानीयकलाकारः शरद सिंह सहिताः चलच्चित्रसम्बद्धाः अन्ये सदस्याः मन्त्रिणे स्मृतिचिह्नरूपेण चलच्चित्रस्य फलकम् अर्पितवन्तः।

दलस्य सदस्यैः उक्तं यत् अस्य चलच्चित्रस्य चित्राङ्कनं मध्यप्रदेशस्य नर्मदापुरम् होशङ्गाबादस्य नर्मदाक्षेत्रस्य च विविधस्थलेषु कृतम् अस्ति तथा च अस्मिन् मध्यप्रदेशस्य संस्कृतिः लोकजीवनम् प्राकृतिकसौन्दर्यम् क्षेत्रीयविरासत् च प्रमुखतया प्रदर्शितानि सन्ति।

भेटवार्तायाः समये चलच्चित्रदलस्य सदस्यैः मन्त्रिणे सूचितं यत् द नर्मदा स्टोरी इत्यस्मिन् प्रदेशस्य कलाकाराः तथा तकनीकीज्ञानाम् अपि अवसरं प्राप्तवन्तः येन स्थानीयप्रतिभानां राष्ट्रीयस्तरे परिचयः प्राप्तः भवति। कलाकारः शरद सिंह अनुरोधं कृतवान् यत् मध्यप्रदेशस्य सांस्कृतिकसंपदं नर्मदाक्षेत्रस्य कथां च देशव्यापी रूपेण प्रसारयन्ती एषा चलचित्रकृति राज्ये करमुक्ता घोषितव्या। तेन उक्तं यत् अनेन एतादृशविषययुक्तानां चलच्चित्राणां अधिकः प्रोत्साहनः भविष्यति।

चलच्चित्रदलस्य निवेदनं प्रति सकारात्मकं दृष्टिकोणम् स्वीकृत्य धर्मेन्द्र सिंह लोधी करमुक्तीकरणस्य प्रस्तावस्य विषये विचारं कर्तुं आवश्यकप्रक्रियाम् अग्रे नेतुं च आश्वासनम् अददात्। तेन उक्तं यत् राज्यसरकारः सदा तेषां प्रयासानां समर्थनं करोति ये मध्यप्रदेशस्य संस्कृतिं इतिहासं स्थानीयप्रतिभाः च प्रोत्साहयन्ति।

द नर्मदा स्टोरी इति चलच्चित्रम् अधुना देशस्य विविधेषु चलचित्रगृहेषु प्रदर्श्यमानम् अस्ति तथा च स्वस्य प्रभावशालिन्या कथया यथार्थपरकप्रस्तुत्या च दर्शकानां समीक्षकाणां च प्रशंसां प्राप्नोति।

Hindusthan Samachar / Dheeraj Maithani