कॉमनवेल्थक्रीडाभ्यो भारतीय दलस्य शेफ डी मिशननिर्माणे रोहित राजपालाय डीओए, डीपीवीएल चेत्येतौ अदत्तां शुभकामनाः
नवदिल्ली, 15 जूनमासः (हि.स.)। आगामिन्यै कॉमनवेल्थ गेम्स प्रतियोगितायै भारतीयदलस्य शेफ डी मिशन प्रशासनिकप्रमुख पदे नियुक्तत्वेन रोहित राजपाल महोदयाय दिल्ली ओलम्पिक एसोसिएशन डीओए तथा दिल्ली प्रो वॉलीबॉल लीग डीपीवीएल इत्येतयोः पक्षतः शुभकामनाः अभिनन
डीओए के संरक्षक संजय शर्मा, डीओए के मुख्य कार्यकारी अधिकारी कुलदीप वत्स, और डीवीपीएल की सह-संस्थापक नीति रावत और जसोदा गुलिया ने राजपाल को बधाई दी


नवदिल्ली, 15 जूनमासः (हि.स.)।

आगामिन्यै कॉमनवेल्थ गेम्स प्रतियोगितायै भारतीयदलस्य शेफ डी मिशन प्रशासनिकप्रमुख पदे नियुक्तत्वेन रोहित राजपाल महोदयाय दिल्ली ओलम्पिक एसोसिएशन डीओए तथा दिल्ली प्रो वॉलीबॉल लीग डीपीवीएल इत्येतयोः पक्षतः शुभकामनाः अभिनन्दनानि च प्रदत्तानि।

रोहित राजपालः अधुना भारतीय ओलम्पिक सङ्घस्य आईओए कार्यकारिणीसमितेः सदस्यः अस्ति। एतदतिरिक्तं सः भारतीय डेविस कप दलस्य कप्तानपदं वहितवान् तथा अखिल भारतीय टेनिस एसोसिएशन संस्थायां उपाध्यक्षस्य दायित्वम् अपि निर्वहति।

दिल्ली ओलम्पिक एसोसिएशन संस्थायाः संरक्षकः संजय शर्मा डीओए मुख्यकार्यकारी अधिकारी कुलदीप वत्स तथा दिल्ली प्रो वॉलीबॉल लीग सहसंस्थापिके नीति रावत जसोदा गुलिया च अद्य राजपाल महोदयेन सह मिलित्वा तस्मै नवीनदायित्वस्य कृते शुभकामनाः प्रदत्तवन्तः।

उपवेशनकाले प्रतिनिधिमण्डलेन विश्वासः प्रकटितः यत् रोहित राजपालस्य नेतृत्वे भारतीयदलम् आगामि कॉमनवेल्थ गेम्स प्रतियोगितायां देशस्य प्रभावशालि प्रतिनिधित्वं करिष्यति तथा च क्रीडकाणां श्रेष्ठप्रदर्शनार्थम् आवश्यकं सहयोगं मार्गदर्शनं च प्राप्स्यति।

वर्षे २०२६ तमे कॉमनवेल्थ गेम्स प्रतियोगिता २३ जुलाई दिनाङ्कतः २ अगस्त दिनाङ्कपर्यन्तं स्कॉटलैण्डदेशस्य ग्लासगो नगरे आयोजिता भविष्यति यस्मिन् ७४ देशानां क्षेत्राणां च प्रायः ३००० क्रीडकाः सहभागं करिष्यन्ति।

भेटवार्तायाः समये दिल्ली प्रो वॉलीबॉल लीग सहसंस्थापिकाभ्याम् राजपाल महोदयस्य पुरतः लीगस्य भावियोजनाः उद्देश्याः विकासप्रतिमानं च प्रस्तुतम्। अस्याः पहलस्य प्रशंसां कुर्वन् राजपाल महोदयः उक्तवान् यत् एतादृशाः प्रयासाः क्रीडकानां कृते उत्तमान् अवसरान् प्रदातुं तथा क्रीडापारिस्थितिकतन्त्रं सुदृढं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति।

उपवेशने दिल्ली नगरे वॉलीबॉल क्रीडायाः वर्तमानपरिदृश्यस्य तस्य विकासस्य च विषये अपि विस्तृतरूपेण चर्चा अभवत्। अस्मिन् समये संजय शर्मा तथा पूर्व दिल्ली वॉलीबॉल सङ्घस्य अध्यक्षपदं वहितवान् कुलदीप वत्स क्रीडाविकाससम्बद्धान् स्वानुभवान् साझा कृतवन्तौ।

उपवेशनस्य समापनम् एतेन संकल्पेन अभवत् यत् दिल्ली नगरे क्रीडानां विकासाय युवा प्रतिभाभ्यः अवसरप्रदानाय भारतीयक्रीडानां नवीनदिशाप्रदानाय च भविष्ये अपि एतादृशाः सहयोगात्मकप्रयत्नाः निरन्तरं प्रचलिताः भविष्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani