दिल्लीविश्वविद्यालये कुलपतिना “स्वस्थ बुढ़ापे के लिए योग” विषयेऽस्मिन् अंताराष्ट्रियच्छात्रैस्सह समाचरितो योग दिवसः
नव दिल्ली, 18 जूनमासः (हि.स.)।दिल्लीविश्वविद्यालयेन तथा भारतीयसांस्कृतिकसम्बन्धपरिषदया गुरुवासरे दिल्लीविश्वविद्यालयस्य वाइस रीगल लॉज स्थिते सम्मेलनसभागृहे अन्तरराष्ट्रीययोगदिवससमारोहः आयोजितः। अस्मिन् अवसरे दिल्लीविश्वविद्यालयस्य कुलपतिः प्रो योगे
डीयू कुलपति प्रो. योगेश सिंह अंतरराष्ट्रीय छात्रों के साथ सामूहिक योग करते हुए।


नव दिल्ली, 18 जूनमासः (हि.स.)।दिल्लीविश्वविद्यालयेन तथा भारतीयसांस्कृतिकसम्बन्धपरिषदया गुरुवासरे दिल्लीविश्वविद्यालयस्य वाइस रीगल लॉज स्थिते सम्मेलनसभागृहे अन्तरराष्ट्रीययोगदिवससमारोहः आयोजितः। अस्मिन् अवसरे दिल्लीविश्वविद्यालयस्य कुलपतिः प्रो योगेश सिंह तथा अन्ये अतिथयः अन्तरराष्ट्रीयछात्रैः सह सामूहिकयोगाभ्यासं कृतवन्तः।

स्वस्थवार्धक्यार्थं योगः इति विषयाधारिते अस्मिन् अन्तरराष्ट्रीययोगदिवसकार्यक्रमे भारतीयसांस्कृतिकसम्बन्धपरिषदः महानिदेशिका के नंदिनी सिंगला मुख्यातिथिरूपेण उपस्थितवती तथा कार्यक्रमस्य अध्यक्षतां दिल्लीविश्वविद्यालयस्य कुलपतिः प्रो योगेश सिंह कृतवान्।

अस्मिन् अवसरे स्वसम्बोधने कुलपतिः प्रो योगेश सिंह उक्तवान् यत् योगः मानवजातेः प्रति भारतस्य महानतमासु देनासु अन्यतमः अस्ति। भारतेन विश्वाय बहूनि उपहाररूपाणि योगदानानि दत्तानि सन्ति तेषु योगः आयुर्वेदः वसुधैवकुटुम्बकम् इति भावना च सर्वाधिकमहत्त्वपूर्णानि सन्ति। तेन उक्तं यत् योगः केवलं शारीरिकाभ्यासः नास्ति अपितु शरीरमनोबुद्ध्यात्मनाम् एकीकरणम् अस्ति।

कुलपतिना उक्तं यत् आनन्दः स्वास्थ्यं च जीवनस्य द्वौ महत्त्वपूर्णौ पक्षौ स्तः। एतयोः एकमात्रः प्रभावकारी उपायः योगः एव अस्ति।

अस्मिन् अवसरे भारतीयसांस्कृतिकसम्बन्धपरिषदः महानिदेशिका के नंदिनी सिंगला उक्तवती यत् दिल्लीविश्वविद्यालयः तथा भारतीयसांस्कृतिकसम्बन्धपरिषद् प्रथमवारं संयुक्तरूपेण योगदिवसं आचरितवन्तौ। तया सूचितं यत् दिल्लीविश्वविद्यालये पञ्चशतानि भारतीयसांस्कृतिकसम्बन्धपरिषदः छात्रवृत्तिप्राप्तविद्यार्थिनः सन्ति। अतः दिल्लीविश्वविद्यालयस्य माध्यमेन एतेषां विद्यार्थिनां द्वारा वयं योगस्य प्रसारं विश्वस्य अनेकेषु देशेषु कुर्मः।

भारतीयसांस्कृतिकसम्बन्धपरिषदः महानिदेशिका के नंदिनी सिंगला प्रसिद्धव्यापारिणः तथा ट्विटरस्वामिनः एलन मस्क इत्यस्य द्विमासपूर्वं सामाजिकमाध्यममञ्चे इंस्टाग्राम इत्यत्र प्रकाशितस्य सन्देशस्य उल्लेखं कृत्वा उक्तवती यत् तेन उक्तम् यद्यपि कश्चित् खरबपतिः भवेत् तथापि यदि सः सुखी स्वस्थश्च नास्ति तर्हि तस्य धनसमृद्धेः विशेषः अर्थः नास्ति। नंदिनी सिंगला अस्य आयोजनस्य कृते दिल्लीविश्वविद्यालयस्य प्रति कृतज्ञतां व्यक्तवती।

अस्मिन् अवसरे महाविद्यालयानां अधिष्ठाता प्रो बलराम पाणी तथा दिल्लीविश्वविद्यालयस्य दक्षिणपरिसरस्य निदेशिका प्रो रजनी अब्बी सहिताः दिल्लीविश्वविद्यालयस्य भारतीयसांस्कृतिकसम्बन्धपरिषदः च अनेके अधिकारिणः तथा दिल्लीविश्वविद्यालये अध्ययनरताः सहस्रशः विदेशीविद्यार्थिनः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani