Enter your Email Address to subscribe to our newsletters

नवदेहली, १८ जूनमासः (हि.स.)। केन्द्रसर्वकारेण अनुसूचितजातीय-विद्यार्थिनां कृते प्री-मैट्रिक तथा पोस्ट-मैट्रिक छात्रवृत्ति-योजनान्तर्गतं अस्मिन् वित्तीयवर्षे ६२०८.०८ कोटि-रूप्यकाणि अधिकानि निर्गतानि सन्ति।
केन्द्रीय-सामाजिकन्याय-अधिकारिता-विभागस्य अनुसारं पोस्ट-मैट्रिक-छात्रवृत्ति-योजनायाः अन्तर्गतं वित्तीयवर्षे २०२५-२६ मध्ये प्रत्यक्षलाभहस्तान्तरण-व्यवस्थया माध्यमेन ६२०८.०८ कोटि-रूप्यकाणि वितरितानि, येन ४७.५३ लक्ष-विद्यार्थिनः प्रत्यक्षं लाभं प्राप्तवन्तः। एतत् विवरणं २०२१-२२ वर्षे डीबीटी-व्यवस्थायाः आरम्भानन्तरं सर्वाधिकः अस्ति।
विभागेन सूचितं यत् १ एप्रिल २०२६ तः ३१ मे २०२६ पर्यन्तं अस्मिन् योजनायां लाभार्थिनां संख्या १६.६३ लक्षपर्यन्तं वर्धिता, या पूर्ववर्षस्य तुलनायां ६१.९२ प्रतिशतं अधिका अस्ति।
अतिरिक्तरूपेण प्री-मैट्रिक-छात्रवृत्ति-योजनायां वित्तीयवर्षे २०२५-२६ मध्ये ५६२.३६ कोटि-रूप्यकाणि निर्गतानि, येन २६.७९ लक्ष-विद्यार्थिनः डीबीटी-माध्यमेन लाभं प्राप्तवन्तः। एषा राशि: २०२२-२३ वर्षात् आरभ्य अद्यावधि सर्वाधिका अस्ति।
चलितवर्षे लाभार्थिनां संख्या ५.७५ लक्षपर्यन्तं वर्धिता, या पूर्ववर्षस्य समानकालस्य (२.३६ लक्ष) अपेक्षया १४३.६४ प्रतिशतं अधिका अस्ति।
विभागेन उक्तं यत् डीबीटी-व्यवस्थायाः कारणेन छात्रवृत्ति-वितरणे पारदर्शिता, उत्तरदायित्वं तथा कार्यक्षमता च सुदृढा अभवत्। केन्द्रसर्वकारः सामाजिकन्याय-उद्यमानां सुदृढीकरणाय तथा वञ्चित-वर्गीयविद्यार्थिनां सशक्तीकरणाय निरन्तरं कार्यरतः अस्ति।
हिन्दुस्थान समाचार / Divya Ranjan