Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, १८ जूनमासः (हि.स.)। राष्ट्रपति: द्रौपदीमुर्मु मध्यप्रदेशस्य पञ्चदिवसीयप्रवासस्य प्रथमदिने गुरुवासरे बैतूलनगरे आयोजिते जनजातीयमहासम्मेलने सहभागं कृत्वा पवित्रनगरीम् ओंकारेश्वरम् आगतवती, यत्र तस्याः आत्मीयं स्वागतमभवत्।
सूचनानुसारं राष्ट्रपतिः सायंकाले ओंकारेश्वर-ममलेश्वर-ज्योतिर्लिङ्गस्य दर्शनं करिष्यति तथा आरार्तिक्यां सहभागं करिष्यति।
राष्ट्रपतेः ओंकारेश्वर-आगमने राज्यपालः मंगुभाईपटेल: तथा संस्कृति-पर्यटन-राज्यमन्त्री तथा प्रभारीमन्त्री धर्मेन्द्रभावसिंहलोधी इत्येते पुष्पगुच्छं समर्प्य स्वागतं कृतवन्तः। तदतिरिक्तं जनजातीयकार्य-मन्त्री डॉ.कुंवरविजयशाहः, सांसदः ज्ञानेश्वरपाटिलः, विधायकाः नारायणपटेलः, छायामोरे, कञ्चनतन्वे, खण्डवा-महापौरः अमृता-अमरयादवः च अपि उपस्थिताः आसन्।
अस्मिन् अवसरे अपरमुख्यसचिवः अशोकबर्णवालः, डीआईजी सिद्धार्थबहुगुणः, कलेक्टर ऋषवगुप्तः, आरक्षक-अधीक्षकः अगमजैनः इत्यादयः जनप्रतिनिधयः अधिकारीगणाः च उपस्थिताः आसन्।
पूर्वं बैतूल-हेलीपैड्-स्थले राष्ट्रपतिः राज्यपालेन सह विदायं प्राप्तवती, यत्र केन्द्रीयजनजातिकार्यमन्त्री डीडी उईके, लोकस्वास्थ्य-परिवारकल्याण-राज्यमन्त्री नरेंद्रशिवाजीपटेलः, अपर-मुख्यसचिवः संजयशुक्लः, उपायुक्त: डॉ.सौरभसंजयसोनवणे, आरक्षकाधीक्षकः वीरेंद्रजैनः इत्यादयः तस्याः आत्मीयं विदायं कृतवन्तः।
Hindusthan Samachar / Divya Ranjan