Enter your Email Address to subscribe to our newsletters



बैतूलम्, १८ जूनमास: (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मू १८ जूनमासतः २२ जूनपर्यन्तं मध्यप्रदेशस्य पञ्चदिवसीय-प्रवासे वर्तते। सा गुरुवासरे बैतूलम् आगता। अत्र आध्यात्मिक-जागृत्या जनजातीय-समाजस्य सशक्तीकरणम् इति विषये आयोजिते महासम्मेलने सा सहभागिनी भविष्यति।
राष्ट्रपतिः गुरुवासरे प्रातः प्रायः दशवादने विशेषविमानेन इन्दौरम् आगता। तत्र देवी-अहिल्याबाई-होल्कर-विमानस्थानके राज्यपालः मङ्गुभाई-पटेलः तथा मुख्यमन्त्री डॉ.मोहन-यादवः तस्याः हार्दिकं स्वागतं कृतवन्तौ। अस्मिन्नवसरे विमानस्थानके सुरक्षा-व्यवस्था अत्यन्तं सुदृढा आसीत्। ततः सा हेलिकॉप्टरविमानद्वारा प्रत्यक्षं बैतूलम् अगच्छत्।
प्रातः प्रायः एकादशवादने राष्ट्रपतिः बैतूलस्य मिलानपुर-शुल्कनाके स्थितं हेलिपदं प्राप्तवती। तत्र राज्यपालः मङ्गुभाई-पटेलः, भारतीय-जनता-पक्ष-प्रदेशाध्यक्षः हेमन्त-खण्डेलवालः, राज्यमन्त्री तथा जनपदस्य प्रभारीमन्त्री नरेन्द्र-शिवाजी-पटेलः, अन्ये जनप्रतिनिधयः अधिकारीणश्च तस्याः स्वागतं कृतवन्तः। ततः राष्ट्रपतेः वाहनसमूहः कार्यक्रमस्थलं लालबहादुर-शास्त्री-क्रीडाङ्गणं प्रति प्रस्थितः।
राष्ट्रपतेः वाहनसमूहः मिलानपुर-हेलिपदात् भारत-भारती, सोनाघाटी-वन-अवरोधकः, चक्कर-मार्गः, कोतवाली-चतुष्पथः, गणेश-मन्दिरम्, महाविद्यालय-चतुष्पथः तथा पुलिस-नियन्त्रण-कक्ष-मार्गेण कार्यक्रमस्थलम् अगच्छत्। तत्र लालबहादुर-शास्त्री-क्रीडाङ्गणे आध्यात्मिक-जागृत्या जनजातीय-समाजस्य सशक्तीकरणम् इति विषये आयोजिते महासम्मेलने राष्ट्रपतिः मुख्यातिथिरूपेण सहभागं करिष्यति। अस्मिन् महासम्मेलने राज्यपालः मङ्गुभाई-पटेलः, केन्द्रीय-राज्यमन्त्री दुर्गादास-उइके, विधायकः हेमन्त-खण्डेलवालः तथा अन्ये बहवः जनप्रतिनिधयः उपस्थिताः भविष्यन्ति। कार्यक्रमानन्तरं राष्ट्रपतिः ओङ्कारेश्वरं प्रति प्रस्थास्यति।
/ अंशु गुप्ता