राष्ट्रपतिः मुर्मुः जीवनसंघर्षस्य कर्तव्यनिष्ठायाश्च अनुपमोदाहरणम् - दुर्गादास: उईके
बैतूलनगरम्, १८ जूनमासः (हि.स.)। केन्द्रीयजनजातीयकार्य-राज्यमन्त्री दुर्गादास: उईके उक्तवान् यत् ओडिशाराज्यस्य लघुजनजातीयग्रामात् आरभ्य देशस्य सर्वोच्चसंवैधानिकपदं यावत् प्राप्तवती राष्ट्रपति: द्रौपदीमुर्मु: भारतीयलोकतन्त्रस्य शक्तेः, संविधानस्य महा
बैतूल में आयोजित 'आध्यात्मिक जागृति से जनजातीय समाज का सशक्तिकरण' महासम्मेलन का शुभारंभ करते हुए राष्ट्रपति


बैतूल में जनजातीय महासम्मेलन को संबोधित करते हुए राज्यपाल मंगुभाई पटेल


बैतूलनगरम्, १८ जूनमासः (हि.स.)। केन्द्रीयजनजातीयकार्य-राज्यमन्त्री दुर्गादास: उईके उक्तवान् यत् ओडिशाराज्यस्य लघुजनजातीयग्रामात् आरभ्य देशस्य सर्वोच्चसंवैधानिकपदं यावत् प्राप्तवती राष्ट्रपति: द्रौपदीमुर्मु: भारतीयलोकतन्त्रस्य शक्तेः, संविधानस्य महानतायाः तथा सामाजिकसमरसतायाः जीवितोदाहरणत्वेन अस्ति। तस्याः जीवनं संघर्षस्य, समर्पणस्य, सेवायाः तथा कर्तव्यनिष्ठायाः अनुपमं निदर्शनम् अस्ति।

केन्द्रीयमन्त्री उईके गुरुवासरे मध्यप्रदेशस्य बैतूलनगरे राष्ट्रपतेः उपस्थितौ प्रजापिता-ब्रह्माकुमारी-ईश्वरीय-विश्वविद्यालयेन आयोजिते ‘आध्यात्मिकजागृत्या जनजातीयसमाजस्य सशक्तीकरणम्’ इति महासम्मेलने सम्बोधितवान्।

तेन उक्तं यत् राष्ट्रपति: मुर्मु: स्वकर्मठतया, धैर्येण तथा वञ्चितवर्गाणां उत्थानाय अटूटप्रतिबद्धतया केवलं सर्वोच्च-संवैधानिकपदं शोभितवती न, अपितु देशस्य प्रत्येकं बाला, जनजातीय-समाजस्य सामान्यनागरिकस्य च कृते प्रेरणास्रोतत्वेन अभवत्। तस्याः नेतृत्वं सामाजिकन्यायस्य, संवैधानिकमूल्यानां रक्षणस्य तथा राष्ट्रनिर्माणस्य दिशि सर्वान् प्रेरयति।

अस्मिन् अवसरे मध्यप्रदेशस्य राज्यपालः मंगुभाईपटेल: अपि उक्तवान् यत् आध्यात्मिकचेतना तथा धार्मिकमूल्यानां माध्यमेन समाजः उन्नतं, संस्कारितं तथा सम्मानपूर्णं जीवनं प्राप्तुं शक्नोति। तेन प्रजापिता-ब्रह्माकुमारी-संस्थायाः समाजे सकारात्मकपरिवर्तनं साधयितुं कार्यं प्रशंसितम्।

पूर्वं कार्यक्रमस्थले अनहदसंगीत-महाविद्यालयस्य सप्तसदस्यीयकलाकारैः मनोहरस्वागत-नृत्यं प्रस्तुतम्। ततः राष्ट्रपतिना कलशध्वजौ ब्रह्माकुमारी-भगिनीभ्यः समर्प्य महासम्मेलनस्य शुभारम्भः कृतः। तदनन्तरं राजयोगिनी-मञ्जू-भगिनी इत्यादिभिः अतिथीनां स्मृतिचिह्नेन सम्मानं कृतम्।

ततः राष्ट्रपतिमहोदयया प्रदर्शिन्याः अवलोकनं कृत्वा जनजातीयसमाजस्य प्राकृतिककृषिउत्पादानां प्रशंसा कृता। अस्मिन् अवसरे अन्येऽपि अतिथयः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan