प्रधानमन्त्री-किसान-योजनायाः २३तम-हस्तान्तरण-भाग: २० जूनमासे विमोच्यते, यस्याः अन्तर्गतं ९.४४ कोटि- कृषकाणां धनागारेषु १८,८८० कोटि-रूप्यकाणि प्रत्यक्षं प्रेषयिष्यन्ते इति घोषितम्
नवदेहली, १८ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी २० जूनमासे पश्चिमबङ्गराज्यस्य तारकेश्वर-नगरात् प्रधानमन्त्री-किसान-सम्मान-निधि-योजनायाः २३तम-भागं विमोचयिष्यति। अस्मिन् अवसरे देशस्य ९.४४ कोट्यधिकानां कृषकाणां धनागारेषु १८,८८० कोटि-रूप्यकाणि
पीएम


नवदेहली, १८ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी २० जूनमासे पश्चिमबङ्गराज्यस्य तारकेश्वर-नगरात् प्रधानमन्त्री-किसान-सम्मान-निधि-योजनायाः २३तम-भागं विमोचयिष्यति। अस्मिन् अवसरे देशस्य ९.४४ कोट्यधिकानां कृषकाणां धनागारेषु १८,८८० कोटि-रूप्यकाणि प्रत्यक्ष-लाभहस्तान्तरणेन प्रेषयिष्यन्ते। एतेषु लाभार्थिषु २.१८ कोट्यधिकाः महिला-कृषकाः अपि अन्तर्भवन्ति।

कृषि-तथा-कृषक-कल्याण-मन्त्रालयेन दत्तसूचनानुसारं पश्चिमबङ्गराज्यस्य ४५.३५ लक्षाधिकानां कृषकाणां कृते ९०७.२१ कोटि-रूप्यकाणि वितरिष्यन्ते। एतेन सह २०१९ वर्षात् आरभ्य अस्मिन् राज्ये प्रधानमन्त्री-किसान-योजनायाः अन्तर्गतं वितरणं १५,०५५ कोटि-रूप्यकाणि अतिक्रान्तम्।

अस्मिन् अवसरे प्रधानमन्त्री अनेकाः महत्त्वपूर्णाः कृषि-योजनाः आरभ्स्यते। तासु प्रधानमंत्री-फसल-बीमा-योजना, डिजिटल-कृषि-अभियान-अन्तर्गतं एग्रीस्टैक्, राष्ट्रीय-प्राकृतिक-कृषि-अभियानं, तथा प्रधानमंत्री-धन-धान्य-कृषि-योजना च सम्मिलिताः सन्ति।

फसल-बीमा-योजनायाः अन्तर्गतं २०२६-२७ वर्षे पश्चिमबङ्गराज्यस्य प्रायः १.१० कोटि कृषकाः बीमा-सुरक्षां प्राप्स्यन्ति इति लक्ष्यं निर्धार्यते। एग्रीस्टैक्-व्यवस्थया कृषकेभ्यः उर्वरक-वितरणं, किसान-क्रेडिट-कार्ड, प्रत्यक्ष-लाभहस्तान्तरणं तथा न्यूनतम-समर्थन-मूल्य-क्रयः इत्यादयः सेवाः डिजिटल-माध्यमेन उपलब्धाः भविष्यन्ति।

राष्ट्रीय-प्राकृतिक-कृषि-अभियान-अन्तर्गतं राज्ये ३४६ प्राकृतिक-कृषि-समूहाः विकसिताः भविष्यन्ति, येन ४३,२५० कृषकाः लाभं प्राप्स्यन्ति। प्रधानमन्त्रिणः धन-धान्य-कृषि-योजनायाः अन्तर्गतं पुरुलिया, दार्जिलिङ्ग, अलीपुरद्वार, झारग्राम इत्येतेषु जनपदेषु कृषि-विकासः, सिंचन-व्यवस्था तथा ग्रामीण-आधारभूत-संरचना सुदृढा भविष्यति।

तदतिरिक्तं २० जूनमासे “पीएम-किसान-उत्सव-दिवसः” अपि देशव्यापकरूपेण आयोज्यते, यस्मिन् कृषि-विज्ञान-केन्द्रेषु, विपणीषु, कृषक-उत्पादक-संस्थासु तथा ग्राम-पञ्चायत-स्तरे विशेषकार्यक्रमाः भविष्यन्ति, येन प्रायः १ कोटि: कृषकाः सम्बद्धाः भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan