पञ्जाबस्य वित्तमन्त्रिणः कथनम् — विवादास्पदे दृश्यचित्रे मुख्यमंत्री भगवन्तमानः नास्ति
चण्डीगढम्, १८ जूनमास: (हि.स.)। अकालतख्तसाहिबस्य जत्थेदारः न्यायवैज्ञानिकप्रयोगशालायाः प्रतिवेदनस्य आधारेण पञ्जाबस्य मुख्यमन्त्रिणः भगवन्तमानस्य विवादास्पदं प्रसारितं दृश्यचित्रं प्रमाणीकृतवान्। अपरपक्षे पञ्जाबस्य वित्तमन्त्री हरपालसिंह-चीमा गुरुवास
पंजाब के वित्त मंत्री हरपाल चीमा पत्रकाराें से बातचीत करते हुए


चण्डीगढम्, १८ जूनमास: (हि.स.)। अकालतख्तसाहिबस्य जत्थेदारः न्यायवैज्ञानिकप्रयोगशालायाः प्रतिवेदनस्य आधारेण पञ्जाबस्य मुख्यमन्त्रिणः भगवन्तमानस्य विवादास्पदं प्रसारितं दृश्यचित्रं प्रमाणीकृतवान्। अपरपक्षे पञ्जाबस्य वित्तमन्त्री हरपालसिंह-चीमा गुरुवासरे द्वयोः प्रयोगशालयोः प्रतिवेदनं प्रकाश्य उक्तवान् यत् विवादास्पदे दृश्यचित्रे दृश्यमानः व्यक्तिः मुख्यमंत्री भगवन्तमानः नास्ति। अकालतख्तसाहिबेन मुख्यमन्त्री तथा मन्त्रिमण्डलस्य सदस्याः समाहूताः सन्तः, अतः पञ्जाबस्य राजनीतौ विवादः तीव्रः जातः।

मुख्यमन्त्रिणः भगवन्तमानस्य विरुद्धम् आरोपः अस्ति यत् तेन गुरूणां चित्रस्य पुरतः मद्यपानं कृतम् तथा तस्य छीटाः अपि क्षिप्ताः। अस्य कथितं दृश्यचित्रं सामाजिकमाध्यमेषु व्यापकतया प्रसारितम्। अकालतख्तेन तस्य परीक्षणं कारितं, ततः तत् प्रमाणीकृत्य मुख्यमन्त्री 'गुरुदोषी' तथा 'पन्थविरोधी' इति घोषितः। अकालतख्तस्य पक्षतः मुख्यमंत्री अन्ये मन्त्रिमण्डलसदस्याश्च २९ जूनदिनाङ्के उपस्थातुं समाहूताः।

आम-आदमी-पक्षस्य प्रवक्ता बलतेज-पन्नू उक्तवान् यत् इदानीं द्वाभ्यां स्वतन्त्राभ्यां भारतसर्वकारमान्यताप्राप्ताभ्यां प्रयोगशालाभ्यां परीक्षणं कारितम्। तस्य दावानुसारं एतयोः प्रतिवेदनयोः कुलम् ११९१ विभिन्नकोणेभ्यः मुख्यमन्त्रिणः शरीरस्य विश्लेषणं कृतम्, यस्मिन् मुखाकृतिः, शरीररचना, गमनशैली च परीक्षिताः। प्रतिवेदनयोः स्पष्टतया उक्तं यत् दृश्यचित्रे भगवन्तमानः न दृश्यते, अपितु कस्यचित् अभिनेतुः उपयोगेन तत् दृश्यचित्रं निर्मितम्।

सः अवदत् यत् आम-आदमी-पक्षस्य प्रतिनिधिमण्डलं पञ्जाब-आरक्षक-महानिदेशकं मिलित्वा अस्य षड्यन्त्रस्य विषये विस्तृतानुसन्धानस्य आग्रहं करिष्यति। ये अस्य षड्यन्त्रस्य पृष्ठे सन्ति, ते देशे विदेशे वा कुत्रापि सन्तु, तेषां विषये सम्यक् अन्वेषणं करणीयम् इति पक्षस्य याचना अस्ति।

वित्तमन्त्री हरपालसिंह-चीमा आरोपितवान् यत् शिरोमणि-अकाली-दलेन सुखबीरसिंह-बादलस्य नेतृत्वे मुख्यमन्त्रिणे अपयश: दातुं प्रयासः कृतः। तेन उक्तं यत् जनानां सम्मुखे इदानीं स्पष्टं जातम् यत् अकाली-दलं कथं कृत्रिम-दृश्यचित्राणि निर्मीय जनानां धार्मिकभावनाभिः क्रीडति, पञ्जाबस्य जनानां धार्मिकभावनाः उद्दीपयितुम् अशान्तिं च प्रसारयितुम् इच्छति।

Hindusthan Samachar / Divya Ranjan