योगेन दीयते स्वस्थ जीवनस्य संदेशः
जोधपुरम, 18 जूनमासः (हि.स.)। नगरे एकविंशतितमे जूनमासे आचर्यमाणस्य योगदिवसस्य उपलक्ष्ये अनेकस्थलेषु योगाभ्यासः क्रियते। अत्र योगस्य माध्यमेन स्वस्थजीवनयापनस्य सन्देशः प्रदीयते। विवेकानन्दकेन्द्र कन्याकुमारी शाखा जोधपुर श्रीविश्वकर्मा जांगिड़ पञ्चाय
jodhpur


जोधपुरम, 18 जूनमासः (हि.स.)। नगरे एकविंशतितमे जूनमासे आचर्यमाणस्य योगदिवसस्य उपलक्ष्ये अनेकस्थलेषु योगाभ्यासः क्रियते। अत्र योगस्य माध्यमेन स्वस्थजीवनयापनस्य सन्देशः प्रदीयते।

विवेकानन्दकेन्द्र कन्याकुमारी शाखा जोधपुर श्रीविश्वकर्मा जांगिड़ पञ्चायतभवनम् तथा श्रीविश्वकर्मा पब्लिक विद्यालयः शास्त्रीनगर इत्येषां संयुक्ततत्त्वावधानेन अद्यतः त्रिदिवसीयस्य निःशुल्कयोगसत्रस्य शुभारम्भः कृतः। कार्यक्रमस्य आरम्भः त्रिवारम् ओंकारप्रार्थनया तथा डीपी शर्मा ज्योतिस्वरूप नगरप्रमुखयोगाचार्य प्रेमरतन सोतवाल इत्येतेषां दीपप्रज्वलनेन सह अभवत्। कार्यक्रमप्रमुखः श्याम मालवीय उक्तवान् यत् योगसत्रस्य समये योगप्रशिक्षकेण पङ्कज व्यासेन सहभागिभ्यः शिथिलीकरणव्यायामः प्राणायामः तथा विविधयोगासनानाम् अभ्यासः कारितः। कार्यक्रमे संस्थानस्य उपाध्यक्षः ज्योतिस्वरूप उक्तवान् यत् आगामिनि एकविंशतितमे जूनमासे अन्ताराष्ट्रिययोगदिवसस्य अवसरे चिकित्सास्वास्थ्यपरीक्षणस्य नेत्रपरीक्षणस्य च शिविरम् अपि आयोज्यते।

तथैव अन्ताराष्ट्रिययोगदिवसस्य उपलक्ष्ये क्रीडाभारती जोधपुर तथा एनआईएफडी इत्येतयोः संयुक्ततत्त्वावधाने नवचौकिया स्थिते रानीमहले योगशिविरस्य आयोजनं कृतम्। शिविरे योगप्रशिक्षकैः सहभागिभ्यः विविधयोगासनानां प्राणायामस्य ध्यानविधीनां च अभ्यासः कारितः तथा नियमितयोगाभ्यासस्य महत्त्वं ज्ञापितम्।

अन्यत्र आगामिनः अन्ताराष्ट्रिययोगदिवसस्य उपलक्ष्ये नगरस्य युवानः मानसिकरूपेण शारीरिकरूपेण च सशक्तान् कर्तुं मन्त्रायणा स्टूडियो इत्यनेन अत्यन्तम् अभिनवः उपक्रमः कृतः। स्टूडियो इत्यनेन एतत् सिद्धीकृतं यत् योगः स्वास्थ्याभ्यासश्च न नीरसः न च क्लान्तिकरः कार्यः अस्ति अपितु सः आनन्ददायकः आधुनिकजीवनशैल्याः महत्त्वपूर्णः अंशः भवितुं शक्नोति। अस्य आरम्भः प्रीति इत्यस्याः जन्मदिवसस्य अवसरे अभवत्। प्रीत्या मन्त्रायणा स्टूडियो इत्यस्य संस्थापकयोः नीति मनिहार तथा दीप चौहान इत्येतयोः मार्गदर्शनेन स्वजन्मदिवसः योगविषयकसमारोहरूपेण आचरितः।

द्वादशतमस्य अन्ताराष्ट्रिययोगदिवसस्य २०२६ वर्षस्य सफलायोजनार्थं तथा सामान्यजनेषु योगस्य विषये जागरूकतावृद्ध्यर्थम् आयुर्वेदविभागस्य जोधपुरस्य तत्त्वावधानेन एकोनविंशतितमे जूनमासे प्रातः अष्टवादने योगजागरूकताराल्याः आयोजनं करिष्यते। आयुर्वेदविभागस्य जोधपुरस्य उपनिदेशकः उक्तवान् यत् एषा रालिः सम्राट अशोक उद्यानतः प्रारभ्य खेमे का कुआं पर्यन्तं सञ्चालिता भविष्यति। रालिं सूरसागरविधानसभाक्षेत्रस्य विधायकः देवेन्द्र जोशी हरितध्वजप्रदर्शनेन प्रेषयिष्यति। राल्याः माध्यमेन नियमितयोगाभ्यासस्य स्वस्थजीवनशैल्याः तथा शारीरिकमानसिकस्वास्थ्यस्य विषये जनजागरूकतायाः सन्देशः प्रदास्यते।

Hindusthan Samachar / Dheeraj Maithani