Enter your Email Address to subscribe to our newsletters

भागलपुरम्, 19 जूनमासः (हि.स.)।तेजस्विनी तथा स्वकीयप्रशासनिककार्यशैल्याः कृते प्रसिद्धा २०१६ वर्षस्य भारतीय प्रशासनिक सेवा अधिकारी अलंकृता पांडे भागलपुरस्य नूतना जिलाधिकारिणी नियुक्ता अस्ति।
बिहारसरकारेण निर्गतस्य नवीन स्थानान्तरण नियुक्ति आदेशस्य अनन्तरं भागलपुरे नूतनस्य प्रशासनिकयुगस्य प्रारम्भः भविष्यति। अस्याः पूर्वम् अलंकृता पांडे जहानाबादजिले जिलाधिकारिणी रूपेण उत्कृष्टाः सेवाः प्रददाति स्म। अधुना तस्याः स्कन्धयोः सिल्क सिटी इति प्रसिद्धस्य भागलपुरस्य विकासस्य तथा विधिव्यवस्थायाः महती उत्तरदायित्वं भविष्यति।
भारतीय प्रशासनिक सेवा अधिकारी अलंकृता पांडे जहानाबादस्य जिलाधिकारिणी सती जनहिताय अनेकान् महत्त्वपूर्णान् निर्णयान् अकरोत् तथा विकासकार्यानि भूमितले सफलतया कार्यान्वितवती। प्रशासनिकदक्षतया जनसामान्येन सह प्रत्यक्षसम्बन्धस्य च कारणात् प्रसिद्धा अलंकृता पांडे अधुना भागलपुरजिलस्य विकासाय प्रशासनिकव्यवस्थायै तथा जनकल्याणकारीयोजनानां प्रवर्तनाय नूतनां गतिं प्रदास्यति।
भागलपुर इव विशालस्य ऐतिहासिकस्य च जिलस्य तस्याः नियुक्तिः अत्यन्तं महत्त्वपूर्णा मन्यते। मूलतः उत्तरप्रदेशस्य कानपुरनगरस्य निवासिनी अलंकृता पांडे बाल्यकालादेव मेधाविनी आसीत्।
तया देशस्य अत्यन्तकठिना मन्यमाना लोकसेवा परीक्षा उत्कृष्टप्रदर्शनेन उत्तीर्णा भूत्वा अखिलभारतीयक्रमाङ्के पञ्चाशीतितमं स्थानं प्राप्तम्। अस्याः सफलतायाः अनन्तरं तस्यै २०१६ वर्षस्य भारतीय प्रशासनिक सेवा अधिकारीरूपेण देशसेवायाः अवसरः प्राप्तः।
अलंकृता पांडे इत्यस्याः संवर्गपरिवर्तनस्य कथा अपि अत्यन्तं रोचका अस्ति। लोकसेवा परीक्षा उत्तीर्णतायाः अनन्तरं तस्यै प्रारम्भे पश्चिमबङ्गालसंवर्गः आवंटितः आसीत्। किन्तु जीवनयात्रायां नूतनः मोडः आगतः तथा तस्याः विवाहः बिहारसंवर्गस्य भारतीय प्रशासनिक सेवा अधिकारी अंशुल अग्रवालेन सह अभवत्। विवाहानन्तरं नियमानुसारं तस्याः अन्तरसंवर्ग स्थानान्तरणम् अभवत् तथा सा पश्चिमबङ्गालसंवर्गतः बिहारसंवर्गे समागता। ततः आरभ्य सा बिहारस्य विभिन्नजिलेषु स्वकीयां प्रशासनिकक्षमतां सफलतया प्रदर्शयन्ती आगच्छति।
भागलपुरजिलप्रशासने अस्मिन् नूतने परिवर्तने सति स्थानीयनागरिकेषु प्रबुद्धजनेषु च पर्याप्तः उत्साहः दृश्यते। सिल्क सिटी इति नाम्ना प्रसिद्धे भागलपुरे स्मार्ट सिटी परियोजना यातायातव्यवस्था बाढनियन्त्रणम् आरोग्यशिक्षाक्षेत्रयोः च अनेकासु दिशासु कार्याणि प्रवर्तमानानि सन्ति।
अलंकृता पांडे शीघ्रमेव भागलपुरं प्राप्य स्वकीयं पदभारं ग्रहिष्यति। ततः परं जिलस्य विकासाय नूतना दृढा च दिशा प्राप्स्यते इति पूर्णा अपेक्षा वर्तते।
---------------
Hindusthan Samachar / Dheeraj Maithani