राष्ट्रपतेः मुख्यातिथ्ये अद्य विश्व सिकल सेल दिवसे ओंकारेश्वरे भव्य समारोहः
भोपालम्, 19 जूनमासः (हि.स.)। राष्ट्रपति द्रौपदी मुर्मुः मुख्यातिथ्यरूपेण उपस्थितायां विश्व सिकल सेल दिवसस्य अवसरः अद्य शुक्रवासरे मध्यप्रदेशस्य खण्डवा जिले स्थितायां पवित्रतीर्थनगर्यां ओंकारेश्वरे भव्यः राज्यस्तरीयः समारोहः आयोज्यते। कार्यक्रमे
खंडवा कलेक्टर राष्ट्रपति को सम्मानित करते हुए


भोपालम्, 19 जूनमासः (हि.स.)।

राष्ट्रपति द्रौपदी मुर्मुः

मुख्यातिथ्यरूपेण उपस्थितायां विश्व सिकल सेल दिवसस्य अवसरः अद्य शुक्रवासरे मध्यप्रदेशस्य खण्डवा जिले स्थितायां पवित्रतीर्थनगर्यां ओंकारेश्वरे भव्यः राज्यस्तरीयः समारोहः आयोज्यते। कार्यक्रमे राज्यपालः मंगुभाई पटेल महोदयः तथा मुख्यमन्त्री डॉ मोहन यादवः

अपि उपस्थितौ भविष्यतः।

जनसम्पर्काधिकारी अङ्कुश मिश्रः अवदत् यत् सिकल सेल रोगस्य उन्मूलनदिशि मध्यप्रदेशराज्यं निरन्तरं प्रभाविकाणि पदक्षेपाणि गृह्णाति। जनजाति बहुलक्षेत्रेषु व्यापक परिशीलन अभियानं सञ्चालयित्वा अधुना यावत् १ कोटि ३२ लक्ष ४३ सहस्र ८७७ अधिकजनानां सिकल सेल परीक्षणं सम्पन्नम्। एतेषु ३९ सहस्र ९४८ रोगिणः तथा २ लक्ष ४२ सहस्र ६४८ वाहकाः अभिज्ञाताः सन्ति। सहैव १ कोटि २० लक्ष २८ सहस्र ८८१ अधिकेभ्यः जनाभ्यः सिकल सेल परिचयपत्राणि वितरितानि सन्ति तथा ३७०० सिकल मित्राः समुदायाधारित जागरूकता सहयोगार्थं प्रशिक्षिताः सन्ति।

सः अवदत् यत् प्रदेशे राष्ट्रिय सिकल सेल पटलमाध्यमेन परीक्षणस्य अनुगमनस्य तथा सतत डिजिटल निगराण्याः व्यवस्था कृता अस्ति येन रोगिणां नियमित अनुवीक्षणं तथा उत्तम चिकित्सा सुनिश्चितीक्रियते। गर्भवती महिलानां सिकल सेल परीक्षणे मातृ शिशु स्वास्थ्य सुरक्षायाम् तथा विशेष प्रबन्धनसम्बद्ध नवाचारेषु अपि विशेषं ध्यानं दीयते। सिकल सेल रोगेण प्रभावितेभ्यः जनाभ्यः निःशुल्क औषधानि आवश्यक परीक्षणानि तथा रक्त सञ्चारणस्य समुचित सुविधाः प्रदीयन्ते।

सः अवदत् यत् प्रदेशस्य जनजातीय अञ्चलेषु व्यापक जनजागरूकता अभियानानि सञ्चाल्यन्ते तथा क्षेत्रीय स्वास्थ्यकर्मिणां चिकित्सकीय प्रबन्धकीय कर्मचारिणां च निरन्तर प्रशिक्षणं सुनिश्चितीक्रियते। सङ्क्रमणात् रक्षणार्थम् आवश्यक टीकाकरण सुविधाः अपि प्रदीयन्ते। सहैव पात्र हितग्राहिभ्यः दिव्याङ्गता प्रमाणपत्रम् यूडीआईडी परिचयपत्रम् तथा पेंशन योजनानां लाभः उपलब्धः क्रियते। विद्यालयेषु महाविद्यालयेषु तथा छात्रावासेषु अपि नियमित स्वास्थ्य परीक्षण शिविराणि तथा जनजागरूकता अभियानानि सञ्चाल्यन्ते।

---------------

Hindusthan Samachar / Dheeraj Maithani