ज्ञानं, विवेकः दूरदर्शिता इव गुणाः जीवने सफलतायाः आधाराः भवन्ति- प्रधानमंत्री मोदी
नवदिल्ली, 19 जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् ज्ञानं विवेकः दूरदर्शिता च जीवने सफलतायाः मूलाधाराः भवन्ति। तेन रेखाङ्कितं यत् एतेषां गुणानां सम्पन्नः जनः कठिनात् कठिनतराः अपि चुनौतयः धैर्येण सम्मुखीकर्तुं शक्नोति तथा अन्ते
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नवदिल्ली, 19 जूनमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् ज्ञानं विवेकः दूरदर्शिता च जीवने सफलतायाः मूलाधाराः भवन्ति। तेन रेखाङ्कितं यत् एतेषां गुणानां सम्पन्नः जनः कठिनात् कठिनतराः अपि चुनौतयः धैर्येण सम्मुखीकर्तुं शक्नोति तथा अन्ते विजयम् अधिगच्छति।

प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे ‘एक्स्’ माध्यमे संस्कृतसुभाषितम् एतत् सह कृतवान्—

“शास्त्रे प्रतिष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी। कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुघाः क्रियासु॥”

अस्य सुभाषितस्य भावार्थः अस्ति यत् कस्यचित् विषयस्य प्रामाणिकं ज्ञानम्, स्वाभाविको विवेकः, निर्भयः आत्मविश्वासः, अभ्यासेन परिष्कृता प्रभावशालिनी वाणी, कालस्य अपेक्षां ज्ञातुं दूरदर्शिता, तथा नूतनसूझबूझयुक्ता प्रतिभा—एते षट् गुणाः मनुष्यस्य सर्वासु क्रियासु कामधेनुवत् फलप्रदाः भवन्ति तथा सर्वेषां लक्ष्याणां सिद्धौ सहायकाः भवन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani