प्रधानमंत्री मोदी समेत्य बहवो नेतारोऽददात् राहुल गांधिने जन्मदिनस्य शुभकामनाः
नवदिल्ली, 19 जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी, लोकसभाध्यक्षः ओमबिडला, काङ्ग्रेसदलस्य राष्ट्रियाध्यक्षः मल्लिकार्जुनखरगे इत्यादयः अनेकाः नेतारः शुक्रवासरे लोकसभायाः विपक्षनेतुः राहुलगान्धिनः जन्मदिवसावसरे तस्मै शुभकामनाः अभिनन्दनानि च प
कांग्रेस नेता राहुल गांधी (फाइल फोटो)


नवदिल्ली, 19 जूनमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी, लोकसभाध्यक्षः ओमबिडला, काङ्ग्रेसदलस्य राष्ट्रियाध्यक्षः मल्लिकार्जुनखरगे इत्यादयः अनेकाः नेतारः शुक्रवासरे लोकसभायाः विपक्षनेतुः राहुलगान्धिनः जन्मदिवसावसरे तस्मै शुभकामनाः अभिनन्दनानि च प्रादुः।

प्रधानमन्त्री नरेन्द्रमोदी ‘एक्स्’ माध्यमे उक्तवान् यत् “लोकसभायाः विपक्षनेता राहुलगान्धी जन्मदिवसस्य हार्दिकशुभकामनाः। तस्य उत्तमस्वास्थ्यस्य दीर्घायुषश्च कामनां करोमि।”

ओमबिडला उक्तवान् यत् सः ईश्वरात् काङ्ग्रेसनेतुः राहुलगान्धिनः उत्तमस्वास्थ्यं दीर्घायुष्च प्रार्थयते।

मल्लिकार्जुनखरगे उक्तवान् यत् काङ्ग्रेसदलस्य सर्वान् समादाय अग्रे गन्तुं प्रवृत्तिः, सामाजिकन्यायस्य, सौहार्दस्य, करुणायाश्च परम्परा भवतः सार्वजनिकजीवने नेतृत्वे च स्पष्टतया प्रतिबिम्बिता भवति। ईश्वरः भवते उत्तमस्वास्थ्यं, सुखं, शक्तिं तथा राष्ट्रसेवायां दीर्घजीवनं प्रददातु।

काङ्ग्रेसदलस्य वरिष्ठनेता कमलनाथः उक्तवान् यत् सत्यस्य, निर्भीकतायाः, साहसस्य च प्रतीकः तथा काङ्ग्रेसकार्यकर्तॄणां नैतिकबलरूपः राहुलगान्धी अस्ति। तस्य नेतृत्वे पुनरपि लोकतन्त्रस्य सुदृढीकरणं भविष्यति। अहम् ईश्वरात् भवतः स्वस्थं दीर्घायुष्मत् जीवनं प्रार्थये।

काङ्ग्रेसदलस्य राज्यसभासदस्यः अभिषेकमनुसिंहवी उक्तवान् यत् बहुवर्षेभ्यः भवता सह समीपतः कार्यं कुर्वन् अहं भवति तादृशं नेतारं दृष्टवान् अस्मि यः दृढविश्वासैः सह अग्रे गच्छति, किन्तु तथैव विनयेन जनानां वचनमपि शृणोति। ईश्वरः भवते उत्तमस्वास्थ्यं दीर्घायुषं राष्ट्रसेवामार्गे निरन्तरसफलतां च प्रददातु।

---------------

Hindusthan Samachar / Dheeraj Maithani