प्रधानमंत्रिणो मोदिनो नेतृत्वे देशो वर्धते विकसित भारतं प्रति : रक्षा खडसे
सूरतम् (गुजरात), 19 जूनमासः (हि.स.)।केन्द्रीयक्रीडायुवकार्यमामलानां राज्यमन्त्री रक्षाखडसे उक्तवती यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे भारतदेशः वर्षं २०४७ पर्यन्तं विकसितभारतत्वस्य लक्ष्यं प्रति द्रुतगत्या अग्रे सरति, तथा च अस्य लक्ष्यस्य सिद
सूरत में वृक्षारोपण करती केंद्रीय खेल एवं युवा मामलों की राज्य मंत्री रक्षा खडसे


सूरतम् (गुजरात), 19 जूनमासः (हि.स.)।केन्द्रीयक्रीडायुवकार्यमामलानां राज्यमन्त्री रक्षाखडसे उक्तवती यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे भारतदेशः वर्षं २०४७ पर्यन्तं विकसितभारतत्वस्य लक्ष्यं प्रति द्रुतगत्या अग्रे सरति, तथा च अस्य लक्ष्यस्य सिद्धौ युवाशक्तेः नारीशक्तेश्च अत्यन्तमहत्त्वपूर्णा भूमिका अस्ति।

केन्द्रीयमन्त्री रक्षाखडसे शुक्रवासरे स्वस्य सूरतनगरभ्रमणस्य अवसरः वीरनर्मददक्षिणगुजरातविश्वविद्यालयपरिसरे आयोजितेषु विविधकार्यक्रमेषु सहभागी अभवत्। प्रधानमन्त्री नरेन्द्रमोदिनः सफलकार्यकालस्य उपलक्ष्ये आयोजितस्य ‘सेवापक्ष’ कार्यक्रमस्य अन्तर्गतं सा स्वच्छताभियाने सहभागित्वा स्वहस्तेन मार्जनीं सञ्चालयामास तथा पर्यावरणसंरक्षणस्य सन्देशं दत्त्वा वृक्षारोपणमपि अकरोत्। अस्मिन् अवसरे सा एनएसएस तथा ‘मायभारत’ इत्यस्य युवा-स्वयंसेवकैः सह संवादं कृत्वा राष्ट्रनिर्माणे तेषां भूमिकाविषये चर्चाम् अकरोत्।

पत्रकारैः सह संवादकाले सा उक्तवती यत् प्रधानमन्त्री नरेन्द्रमोदी कदापि अवकाशं न स्वीकृत्य राष्ट्रसेवामेव सर्वोच्चप्राथमिकतारूपेण स्वीकृतवान्। सः सर्वान् जनप्रतिनिधीन् अपि जनसेवकरूपेण कार्यं कर्तुं प्रेरितवान्।

विपक्षदलानां सांसदानां भारतीयजनतापक्षे तथा राष्ट्रियजनतान्त्रिकगठबन्धने सम्मिलनविषये पृष्टा रक्षाखडसे उक्तवती यत् प्रधानमन्त्रीमोदिनः विकासोन्मुखदृष्टिकोणेन सुशासनेन च प्रभाविताः विविधदलानां नेतारः एनडीए-संघटनस्य भागिनः भवन्ति।

केन्द्रीयमन्त्री उक्तवती यत् स्वातन्त्र्यस्य शतवर्षपूर्त्यवसरे भारतं विश्वस्य सम्मुखे आदर्शराष्ट्ररूपेण प्रतिष्ठास्यते। अस्य लक्ष्यस्य प्राप्तौ युवानां महिलानां च सहभागिता सर्वाधिकमहत्त्वपूर्णा भविष्यति। सा पुनरुक्तवती यत् राष्ट्रस्य प्रगतये महिलाः युवानश्च नेतृत्वस्य मुख्यधारायाम् आनेतुं कालस्य आवश्यकता वर्तते।

---------------

Hindusthan Samachar / Dheeraj Maithani