Enter your Email Address to subscribe to our newsletters



गोरखपुरम्, 05 जूनमासः (हि.स.)।अखिलभारतीयविद्यार्थिपरिषदः अखिलभारतीयविद्यार्थिपरिषदः आयामः स्टूडेण्ट्स फॉर डेवलपमेण्ट इत्यस्य तत्त्वावधाने शुक्रवासरे विश्वपर्यावरणदिवसे गोरखपुरमहानगरसहितेषु विभिन्ननगरैककेषु वृहद्वृक्षारोपणं जनजागरूकताभियानं च आयोजितम्। अभियानस्य अन्तर्गतं प्रायः पञ्चशतानि फलदारुपादपानां रोपणं कृत्वा पर्यावरणसंरक्षणस्य हरितभविष्यस्य च प्रति समाजं जागरूकं कर्तुं सन्देशः प्रदत्तः। कार्यक्रमे क्षेत्रीयवनसंरक्षणाधिकारिणः दिनेशचौरसियामहाभागस्य उपस्थितिरासीत्।-------------------