Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 05 जूनमासः (हि.स.)।
राष्ट्रियकृषिविज्ञानाकादम्याः ३३ तमस्थापनादिवसस्य अवसरे कृषिपर्यावरणग्रामीणविकासैः सम्बद्धेषु विषयेषु कार्यं कुर्वन्तः विशेषज्ञाः सम्मानिताः। पत्रकारा विदुषी च डॉ मीनाकुमारी स्वस्य उत्कृष्टयोगदानस्य कृते सम्मानिता।
एपी शिन्दे सिम्पोजियमसभागृहे आयोजिते राष्ट्रियकृषिविज्ञानाकादम्याः ३३ तमस्थापनादिवससमारोहे पद्मपुरस्कारविजेता एनएएएस फेलो डॉ पीएल गौतम डॉ अशोकके सिंह किसानप्रतिनिधिः श्रीरङ्गदेवबालाड उद्योगजगतः प्रमुखव्यक्तित्वम् डॉ मीनेशशाह दिलीपसङ्घानी च सहिताः माध्यमक्षेत्रस्य वरिष्ठपत्रकारः संजीबमुखर्जी अपि सम्मानितः।
अस्मिन् अवसरे एनएएएस यङ्ग साइण्टिस्ट पुरस्कारः तथा एनएएएस धनुका पुरस्कारः अपि प्रदत्तः। कार्यक्रमस्य प्रारम्भः डॉ अशोकके सिंहस्य स्वागतभाषणेन अभवत् यदा डॉ बीएस द्विवेदी धन्यवादज्ञापनम् अकरोत्।
अस्मिन्नवसरे स्वीयसम्बोधने अकादम्याः अध्यक्षः डॉ एमएल जाट अवदत् यत् विज्ञानम् उद्योगः माध्यमक्षेत्रम् कृषकसमाजः च एते चत्वारः स्तम्भाः सन्ति येषां समन्वयेन एव कृषिक्षेत्रस्य समग्रविकासः सम्भवः। सम्मानिताः सर्वे व्यक्तयः स्वस्वक्षेत्रेषु उत्कृष्टकार्यं कृत्वा एतं सेतुबन्धं दृढतरं कृतवन्तः।
-----------