डेटा-सेंटर-कम्पनी एयरट्रंक इत्यनेन भारते त्रिलक्षकोटि-रूप्यकाणां निवेशस्य घोषणा कृता
दिल्ली, ०५ जूनमासः (हि.स.)। ऑस्ट्रेलियादेशस्य हाइपरस्केल-डेटा-सेंटर-निर्माणी एयरट्रंक इत्यनेन भारते प्रायः त्रिलक्षकोटि-रूप्यकाणां निवेशस्य तथा ५ गीगावाट-डेटा-सेंटर-क्षमतायाः विकासस्य योजनायाः घोषणा कृता। प्रधानमन्त्री नरेन्द्रमोदी महोदयः शुक्रवार
प्रधानमंत्री नरेन्द्र मोदी और एयरट्रंक के सीईओ


दिल्ली, ०५ जूनमासः (हि.स.)। ऑस्ट्रेलियादेशस्य हाइपरस्केल-डेटा-सेंटर-निर्माणी एयरट्रंक इत्यनेन भारते प्रायः त्रिलक्षकोटि-रूप्यकाणां निवेशस्य तथा ५ गीगावाट-डेटा-सेंटर-क्षमतायाः विकासस्य योजनायाः घोषणा कृता।

प्रधानमन्त्री नरेन्द्रमोदी महोदयः शुक्रवारदिने एयरट्रंक इत्यस्य संस्थापकं मुख्यकार्यनिर्वाहकं च अधिकारीं साक्षात्कृत्य तस्य चित्राणि सामाजिकमाध्यमे ‘एक्स्’ इत्यस्मिन् सहभागं कृतवान्। सः उक्तवान् यत् भारतस्य डिजिटल-अवसंरचनायात्रा तीव्रगत्या अग्रे गच्छति।

एतत् निवेश-योजनायां भारतस्य डिजिटल-अवसंरचनाक्षेत्रे प्रस्तावितेषु महत्तमेषु निवेशेषु अन्यतमम् अस्ति।

सः अवदत् यत् एतेन निवेशेन क्लाउड्-कम्प्यूटिङ्ग् तथा कृत्रिमबुद्धेः (ए.आइ.) क्षेत्रे भारतस्य वैश्विकस्थिति: सुदृढा भविष्यति। सहैव विशालस्तरे रोजगार-अवसरा: उत्पत्स्यन्ते, स्थानीय-आपूर्ति-शृङ्खलाः सुदृढाः भविष्यन्ति तथा नवाचाराधारित-विकासः गतिं प्राप्स्यति।

प्रधानमन्त्री मोदी उक्तवान् यत् भारतं विश्वस्य डिजिटल-अर्थव्यवस्थायाः प्रमुख-केन्द्रत्वेन उद्भवति, तथा च स्पष्टं भवति यत् वैश्विक-डिजिटल-अर्थव्यवस्थायाः भविष्यं शीघ्रमेव भारते आकारं प्राप्स्यति।

Hindusthan Samachar / Divya Ranjan