Enter your Email Address to subscribe to our newsletters

अगरतलानगरम्, ०५ जूनमासः (हि.स.)। भारत-बाङ्गलादेशसीमायां सुरक्षाव्यवस्थां सुदृढतरां कर्तुं तथा अवैध-प्रवेशनिरोधाय प्रभावी-उपायानां कृते केन्द्रसर्वकारेण कठोर-नीतिः स्वीकृता इति संकेताः प्रदत्ताः।
शुक्रवारदिने त्रिपुराराज्यस्य सीमावर्ती-लङ्कामुडा-सीमा-क्षेत्रे सीमा-सुरक्षा-बलस्य (BSF) जवानान् सम्बोधयन् केन्द्रीयगृहमन्त्री अमित-शाहः उक्तवान् यत् पश्चिमबङ्ग-त्रिपुरा-बिहार-इत्यादिषु सीमावर्ती-राज्येषु जनसंख्यायाः असामान्य-परिवर्तनं कदापि स्वीकार्यं न भविष्यति।
सः अवदत् यत् अन्तरराष्ट्रीयसीमानां सुरक्षायां विद्यमानाः न्यूनताः, दुर्बलताः तथा समस्याभिश्च चिन्हीकृत्य तासां निवारणाय केन्द्रसर्वकारः व्यापकस्तरे कार्यं कुर्वन् अस्ति। अवैध-प्रवेशनं, तस्करी च अन्ये च अन्ताराष्ट्रिय-अपराधान् निवारयितुं आधुनिक-प्रौद्योगिकी-आधारितं निगराणी-तन्त्रं प्राथमिकतया विकसितं भवति।
सः स्पष्टं उक्तवान् यत् सीमावर्ती-राज्येषु जनसंरचनायां यः परिवर्तनः दृश्यते सः चिन्ताजनकः अस्ति, तथा सर्वकार: सीमा-सुरक्षां अभेद्यां कर्तुं सर्वान् आवश्यकान् उपायान् करोति।
अस्मिन् अवसरे सः केन्द्रसर्वकारस्य महत्वाकाङ्क्षिण्याः ‘स्मार्ट-सीमा’ परियोजनायाः उल्लेखं कृतवान्। सः अवदत् यत् इयं परियोजना अन्तिम-चरणे अस्ति तथा शीघ्रमेव सप्त-अष्ट-प्रमुख-सीमाक्षेत्रेषु पायलट-परियोजनारूपेण प्रवर्तिष्यते। सफलतायाः अनन्तरं सा क्रमशः अन्येषु सीमाक्षेत्रेषु विस्तारं गमिष्यति।
सः अवदत् यत् अस्यां परियोजनायां उन्नत-सेंसर-प्रणाल्यः, स्मार्ट-फेन्सिङ्ग, ड्रोन-निरीक्षणं तथा आधुनिक-निरीक्षण-प्रौद्योगिक्यः एकीकृताः भविष्यन्ति। स्थानीय-प्रशासनस्य सुरक्षा-संस्थानां च समन्वयेन संदिग्ध-गतिविधीनां शीघ्र-परिचयः तथा त्वरित-कार्यवाही सुनिश्चिती भविष्यति।
अमित-शाहः अवदत् यत् त्रिपुरा-फ्रण्टियरः अस्माकं कृते अत्यन्तं महत्त्वपूर्णः अस्ति, यः देशस्य सीमासुरक्षां वहति। सः अवदत् यत् सीमायां बाड़स्य आधुनिकीकरणाय प्रायः ६५० किलोमीटर-पुरातन-बाड-इत्येतेषु ११९ किलोमीटर-नवीन-बाड़-इत्यस्य अपि अनुमोदनं कृतम् अस्ति।
सः अवदत् यत् जवानानां सुविधायै सीमाचौकीषु विद्युत्-आपूर्तिः, हरित-ऊर्जा-प्रकल्पाः तथा सुरक्षित-पीयुषजल-योजनाः आरब्धाः एव न केवलं आरब्धाः, अपि तु सफलतया पूर्णीकृताः अपि सन्ति।
त्रिपुराप्रवासकाले अमित-शाहः विश्वपर्यावरणदिवसावसरे अगरतलानगरे वृक्षारोपणकार्यक्रमे भागं गृहीत्वा एकं पादपं रोपितवान्। अस्मिन् अवसरे त्रिपुरामुख्यमन्त्री डॉ.माणिक-साहा, केन्द्रीयगृहसचिवः, आसूचना-व्यूरो-निदेशकः, सीमा-प्रबन्धन-सचिवः तथा सीमा-सुरक्षा-बलमहानिदेशकः च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan