Enter your Email Address to subscribe to our newsletters

कठुआनगरम्, ०५ जूनमासः (हि.स.)। पृथिव्यां जीवनस्य मूलाधारः जलम् अस्ति, यस्य महत्तमं भण्डारं हिमनद्यः (ग्लेशियराः) रूपेण पर्वतीयप्रदेशेषु स्थितम् अस्ति। एताः “हिमनद्यः” इति कथ्यन्ते, यतः एताः बृहत्तमाः हिमराशयः शनैः शनैः प्रवहन्ति इव गतिं कुर्वन्ति। एतासां सीमितद्रवणं (पिघलनम्) अत्यावश्यकम्, यतः तेनैव नदीनां स्रोतः निर्मीयते तथा मानवजीवनाय जलप्रदाय: भवति।
हिमनद्यः मुख्यतया द्विविधाः सन्ति—आल्पाइन (घाटी) हिमनद्यः तथा पर्वतीयहिमनद्यः। भारतस्य हिमालय-काराकोरम-लद्दाखादिप्रदेशेषु प्रमुखाः हिमनद्यः दृश्यन्ते। एतेषु सियाचिन-हिमनदी विश्वस्य बृहत्तमेषु अन्यतमः अस्ति। गङ्गोत्री, यमुनोत्री, पिण्डारी, मिलम्, जेमू इत्यादयः हिमनद्यः अपि भारतस्य जलस्रोतांसि अत्यन्तं महत्त्वपूर्णतां वहन्ति।
वैज्ञानिकदृष्ट्या पृथिव्यां जलस्य प्रायः ९७ प्रतिशतं समुद्रेषु अस्ति, केवलं ३ प्रतिशतं मधुरजलम् अस्ति। तस्मात् मधुरजलस्य प्राय: ६८ प्रतिशतं हिमनदीनां हिमरूपेण स्थितम् अस्ति। अतः भारत-पाकिस्तान-बङ्गलादेशादिषु कोटिशः जनाः एतेषां हिमनदीनां उपरि आश्रिताः सन्ति।
किन्तु अद्यतनकाले जलवायुपरिवर्तनस्य कारणात् हिमनद्यः तीव्रगत्या द्रवन्ति। तापमानवृद्धिः, अनियमितहिमपातः तथा प्रदूषणवृद्धिः अस्याः समस्यायाः कारणानि सन्ति। यदि एषा स्थिति अनवरतं भविष्यति, तर्हि समुद्रस्तरः वर्धिष्यते, तटीयप्रदेशेषु आपदाः भविष्यन्ति तथा मधुरजलस्य तीव्राभावः भविष्यति।
मानवक्रियाः अपि अस्य संकटस्य प्रमुखं कारणम् अस्ति—प्लास्टिकस्य अत्यधिकोपयोगः, कचरेण दहनम्, पराली-दहनम्, औद्योगिकप्रदूषणं च वातावरणं दुष्प्रभावितं कुर्वन्ति। एतेन उत्सर्जिताः वायवः तापमानं वर्धयन्ति, येन हिमनदीनां संतुलनं भङ्गं गच्छति।
तथापि किञ्चित् सकारात्मकपरिवर्तनम् अपि दृश्यते। सौर-ऊर्जायाः उपयोगः, विद्युत्-वाहनानां प्रचलनम्, स्वच्छईन्धनस्य प्रयोगः च प्रदूषणनियन्त्रणाय सहायकाः भवन्ति। किन्तु जनसंख्यावृद्धिः, ऊर्जायाः अत्यधिकोपभोगः तथा प्राकृतिकसंसाधनानां अनियन्त्रितोपयोगः अद्यापि समस्यारूपेण स्थितः अस्ति।
हिमनदीरक्षणाय बहु-आयामिकाः उपायाः आवश्यकाः सन्ति—वृक्षारोपणम्, प्रदूषणनियन्त्रणम्, प्लास्टिकोपयोगस्य न्यूनता, तथा वर्षाजलसंचयनस्य (रेन-वाटर-हार्वेस्टिङ्ग्) प्रवर्तनम्। वैज्ञानिकानुसन्धानस्य प्रोत्साहनम् अपि आवश्यकम् अस्ति। तदतिरिक्तं जीवनशैल्याः परिवर्तनम् अपि अनिवार्यम्—ऊर्जासंरक्षणम्, संसाधनानां संतुलितोपयोगः, पर्यावरणं प्रति उत्तरदायित्वम् च।
अन्ते, हिमनद्यः केवलं हिमपर्वताः न सन्ति, अपि तु मानवजीवनस्य जीवनधारा एव। यदि अद्यैव अस्माभिः तासां संरक्षणाय जागरूकता न स्वीक्रियते, तर्हि अग्रिमवंशा: भीषणजलसंकटं प्राप्स्यन्ति।
अतः एषा केवलं शासनस्य वा वैज्ञानिकानां न, अपि तु सर्वेषां नागरिकानां सामूहिककर्तव्यं यत् प्रकृतेः एतां अमूल्यधरोहरं रक्षेम।
/ अंशु गुप्ता