Enter your Email Address to subscribe to our newsletters

चूरूः, 05 जूनमासः (हि.स.)।
जिलायाः बीदासरनगरे मुस्लिमसमाजस्य प्रतिनिधयः गोमातरं राष्ट्रियपशुरूपेण घोषितुं मागं प्रस्तूय राष्ट्रपतये प्रधानमन्त्रिणे च नाम्ना उपखण्डाधिकरिणे ज्ञापनपत्रं समर्पितवन्तः। समाजस्य जनाः गोमातुः सांस्कृतिकसामाजिकआर्थिकमहत्त्वं प्रकाशयन्तः तस्याः संरक्षणसंवर्धनयोः कृते विशेषपदानि ग्रहीतुम् आवश्यकता अस्तीति उक्तवन्तः।
प्रतिनिधिमण्डलेन उपखण्डाधिकरिणे अमीलालयादवाय समर्पिते ज्ञापनपत्रे उक्तं यत् गौः भारतीयसंस्कृतेः सभ्यतायाः ग्रामीणार्थव्यवस्थायाश्च अभिन्नः अङ्गः अस्ति। देशस्य कोटिशः जनानां धार्मिकश्रद्धा भावनाश्च गोमात्रा सह सम्बद्धाः सन्ति। तदतिरिक्तं दुग्धोत्पादने कृषिकर्मणि जैविककृषौ पर्यावरणसंरक्षणे च गोमातुः महत्त्वपूर्णा भूमिका अस्ति।
ज्ञापनपत्रे उक्तं यत् भारतीयसमाजे गोमाता सम्मानादरदृष्ट्या दृष्टा भवति। अतः तस्यै राष्ट्रियपशोः पदवी प्रदानेन तस्याः संरक्षणसंवर्धनपालनयोः नूतना दिशा प्राप्स्यते। सहैव एषः निर्णयः सामाजिकसमरसतां भ्रातृत्वभावं राष्ट्रियैक्यं च अधिकं दृढं करिष्यति।
मुस्लिमसमाजस्य प्रतिनिधयः उक्तवन्तः यत् गोमातरं राष्ट्रियपशुरूपेण घोषितुं देशवासिनां भावनानां सम्मानं करणीयं पदम् भविष्यति। ते केन्द्रीयसर्वकारात् अस्मिन् विषये सकारात्मकनिर्णयं ग्रहीतुं प्रार्थितवन्तः।
अस्मिन् अवसरे अफजलहुसैनसलामपुरिया नगरकाजी हाफिजशरीफ हाफिजरमजान हाफिजमुस्लिम अधिवक्ता इरफानसोलङ्की इमरानभुट्टा सोहेलसोलङ्की सलमानभुट्टा समीरभुट्टा रियांशसोलङ्की इमरान जमीर च सहिताः मुस्लिमसमाजस्य अनेके प्रतिनिधयः उपस्थिताः आसन्।
ज्ञापनपत्रसमर्पणानन्तरं समाजस्य जनाः गोसंरक्षणस्य सामाजिकसौहार्दस्य च संवर्धनाय सर्वेभ्यः वर्गेभ्यः सहयोगस्य आह्वानं कृतवन्तः।
---------------
Hindusthan Samachar / Dheeraj Maithani