Enter your Email Address to subscribe to our newsletters


भारत स्काउट-गाइड इत्यस्य 10 दिवसीयं निःशुल्कं जलसेवा शिविरस्य समापनम्
मुरादाबादम्, 05 जूनमासः (हि.स.)।भारतस्काउट एण्ड गाइड जनपदमुरादाबादेन रोडवेज बसस्थानके आयोजितस्य दशदिवसीयस्य निःशुल्कजलसेवाशिविरस्य शुक्रवासरे भव्यं प्रेरणादायकं च समापनम् अभवत्। समापनसमारोहस्य मुख्यातिथिः उत्तरप्रदेशबालकल्याणआयोगस्य पूर्वाध्यक्षः डा विशिष्टगुप्ता स्काउट गाइड स्वयंसेवकानां सेवाभावस्य मुक्तकण्ठेन प्रशंसां कुर्वन् अवदत् यत् सेवा एव सत्यः धर्मः अस्ति तथा च स्काउट गाइड बालकाः अस्य धर्मस्य वास्तविकं पालनं कुर्वन्ति।
डा विशिष्टगुप्तोऽग्रे उक्तवान् यत् ये युवानः समाजस्य पीडां ज्ञात्वा सेवायै अग्रे आगच्छन्ति ते एव भविष्ये राष्ट्रस्य सशक्तनागरिकाः संवेदनशीलनेतारश्च भवन्ति।
कार्यक्रमे जिलास्काउटकमिश्नरः डा हिमांशुयादवोऽवदत् यत् भारतस्काउट एण्ड गाइड केवलं सङ्गठनं नास्ति अपितु व्यक्तित्वनिर्माणस्य सशक्ता पाठशाला अस्ति या बालकेभ्यः अनुशासनस्य नेतृत्वस्य सेवायाः राष्ट्रभक्तेः च पाठं शिक्षयति।
जिलासचिवः डा सुरेन्द्रवर्मा शिविरस्य विस्तृतप्रतिवेदनं प्रस्तुत्य अवदत् यत् पञ्चविंशतितमे मेमासदिनाङ्कात् चतुर्थजूनदिनाङ्कपर्यन्तं सञ्चालिते अस्मिन् सेवाभियाने जनपदस्य विभिन्नविद्यालयानां द्विशताधिकपञ्चाशत् स्काउट गाइड स्वयंसेवकाः निःस्वार्थभावेन सेवां प्रदत्तवन्तः।
कोषाध्यक्षः शिवकुमारशर्मा, कमिश्नरः संजयसिंहः, बुलबुलकमिश्नरः मधुसक्सेना, यूथकमिश्नरः बबीतामेहरोत्रा, एसडीएम इण्टर कालेजस्य प्रधानाचार्यः उदयराजसिंहमहोदयः तथा जनपदस्य प्रथमः राष्ट्रपतिस्काउटः विजयमल्होत्रामहोदयः अपि स्वविचारान् व्यक्तवन्तः।
Hindusthan Samachar / Dheeraj Maithani