राष्ट्र निर्माणे चार्टर्ड अकाउंटेंट इत्यस्य भूमिका मुख्यभूता : प्रधानमंत्री
नव दिल्ली, 01 जुलाईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे चार्टर्ड अकाउण्टेण्ट दिवसस्य अवसरे देशव्यापिनः चार्टर्ड अकाउण्टेण्ट समुदायस्य सदस्येभ्यः शुभकामनाः प्रदत्तवान्। तेन उक्तं यत् चार्टर्ड अकाउण्टेण्ट समुदायः भारतस्य आर्थिकयात्रायाः द
प्रधानमंत्री नरेन्द्र मोदी शुक्रवार को विकसित भारत रोजगार योजना के तहत 2,400 करोड़ रुपये की प्रोत्साहन राशि वितरित करने के बाद संबोधित करते हुए


नव दिल्ली, 01 जुलाईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे चार्टर्ड अकाउण्टेण्ट दिवसस्य अवसरे देशव्यापिनः चार्टर्ड अकाउण्टेण्ट समुदायस्य सदस्येभ्यः शुभकामनाः प्रदत्तवान्। तेन उक्तं यत् चार्टर्ड अकाउण्टेण्ट समुदायः भारतस्य आर्थिकयात्रायाः दीर्घकालात् विश्वसनीयः सहयात्री अस्ति तथा तेषां विशेषज्ञता देशस्य आर्थिकविकासे राष्ट्रनिर्माणे च महत्त्वपूर्णं योगदानं ददाति।

प्रधानमन्त्री सामाजिकमाध्यमे एक्स इति सञ्चारमञ्चे प्रकाशितसन्देशे अवदत् यत् पारदर्शितायाः व्यावसायिकोत्कृष्टतायाः च प्रति स्वप्रतिबद्धतया चार्टर्ड अकाउण्टेण्ट समुदायः देशस्य वित्तीयव्यवस्थां सुदृढां करोति। तेन उक्तं यत् विकसितभारतस्य लक्ष्यस्य दिशि अग्रे गच्छता चार्टर्ड अकाउण्टेण्ट समुदायस्य प्रयासाः तादृशस्य आर्थिकपरिवेशस्य निर्माणे सहायकाः भवन्ति यस्मिन् उद्योगाः व्यवसायाश्च सम्यक् वर्धन्ते तथा सर्वेभ्यः नूतनावसराणां विस्तारः भवति। प्रधानमन्त्री पुनः अवदत् यत् राष्ट्रस्य प्रगत्यां सीए समुदायस्य योगदानम् अत्यन्तं महत्त्वपूर्णम् अस्ति तथा तेषां सेवाः भारतस्य आर्थिकसुदृढतायाः दृढाधाररूपेण स्थिताः सन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani