किम जोंग-उन इत्यस्य चीनेन सह दृढसंबन्धान्निर्मातुम् अनुबंधः
सियोलम्, 01 जुलाईमासः (हि.स.)। उत्तरकोरियादेशस्य राष्ट्रपतिः किम जोंग उन चीनदेशस्य साम्यवादीदलस्य स्थापना शतपञ्चमवर्षगाठायाः अवसरे चीनदेशस्य राष्ट्रपतये शी जिनपिङ्ग महोदयाय अभिनन्दनसन्देशं प्रेषितवान् तथा बीजिङ्गेन सह सम्बन्धान् अधिकं सुदृढान् कर
fc89a9d7001b4f9bfe6e11faf9873b87_263427040.jpg


सियोलम्, 01 जुलाईमासः (हि.स.)।

उत्तरकोरियादेशस्य राष्ट्रपतिः किम जोंग उन चीनदेशस्य साम्यवादीदलस्य स्थापना शतपञ्चमवर्षगाठायाः अवसरे चीनदेशस्य राष्ट्रपतये शी जिनपिङ्ग महोदयाय अभिनन्दनसन्देशं प्रेषितवान् तथा बीजिङ्गेन सह सम्बन्धान् अधिकं सुदृढान् कर्तुं स्वप्रतिबद्धतां पुनः प्रतिपादितवान्।

कोरियाई सेन्ट्रल न्यूज एजेंसी इत्यस्याः उद्धरणेन दक्षिणकोरियादेशस्य सरकारी समाचारसंस्था योनहाप न्यूज अवदत् यत् किम उक्तवान् साम्यवादीदलस्य विना नूतनः चीनदेशः निर्मातुं न शक्यते। एषः सः सत्यः अस्ति यं चीनदेशीयाः जनाः बहुवर्षाणि यावत् दलस्य नेतृत्वे अग्रे गच्छन्तः अनुभूतवन्तः।

केसीएनए इत्यस्याः अनुसारं किम गतमासे प्योंगयाङ्गनगरे शी जिनपिङ्गेन सह सम्पन्नां शिखरवार्तां स्मृतवान्। शी जिनपिङ्ग ८ तथा ९ जूनदिनाङ्कयोः प्योंगयाङ्गस्य द्विदिवसीयं राजकीयभ्रमणं कृतवान्। एषा प्रायः सप्तवर्षाणां मध्ये उत्तरकोरियादेशस्य तस्य प्रथमयात्रा आसीत्। अस्याः यात्रायाः समये उभौ नेतारौ राजनीति अर्थव्यवस्था संस्कृतिक्षेत्रयोः सहयोगवृद्ध्यर्थं सहमतिं व्यक्तवन्तौ। उच्चस्तरीयसंवादस्य सुदृढीकरणाय तथा द्विपक्षीयसम्बन्धेषु नूतनाध्यायस्य आरम्भाय अपि वचनं दत्तवन्तौ।

केसीएनए इत्यस्याः प्रतिवेदनानुसारं चीनदेशस्य नेतारं प्रति प्रेषिते सन्देशे किम उक्तवान् यत् उभयदेशयोः सम्बन्धानां सुदृढता दलयोः नेतृत्वेन एव सुनिश्चितं भवति।

उत्तरकोरियादेशस्य राष्ट्रपतिः उक्तवान् यत् समाजवादस्य अधिकसुदृढीकरणरूपं उभयदलयोः समानलक्ष्यं साधयितुं सः शी जिनपिङ्गेन सह संयुक्तरूपेण कार्यं कर्तुं सज्जः अस्ति।

------------

हिन्दुस्थान समाचार / Dheeraj Maithani