Enter your Email Address to subscribe to our newsletters

तेहरानम् , 01 जुलाईमासः (हि.स.)।
ईरानस्य कार्यवाहकरक्षामन्त्री ब्रिगेडियर जनरल माजिद एब्न अल रेजा उक्तवान् यत् देशस्य रक्षा, प्रक्षेपास्त्र तथा मानवरहितविमानक्षमताः राष्ट्रियसुरक्षायाः कृते एका लालमर्यादा सन्ति। एतासां विषये केनापि प्रकारेण वार्ता न भविष्यति।
ईरानस्य अर्धसरकारी समाचारसंस्था तसनीम न्यूज एजेंसी इत्यस्याः अनुसारं ब्रिगेडियर जनरल माजिद एब्न अल रेजा सामाजिकमाध्यममञ्चे एक्स इत्यत्र उक्तवान् यत् सांसदैः सह सम्पन्नायां सभायां तेन ईरानविरुद्धं सम्पन्नायाः समीपकालीनायाः अमेरिकी इजरायली आक्रमणशीलतायाः विविधपक्षाः, उपलब्धयः तथा वैशिष्ट्यानि प्रतिपादितानि।
तेन पुनः प्रतिपादितं यत् ईरानस्य रक्षा, प्रक्षेपास्त्र तथा मानवरहितविमानक्षमताः राष्ट्रियसुरक्षायाः कृते लालमर्यादा सन्ति। एताः न इदानीं न भविष्ये कदापि वार्तायाः विषयः भविष्यन्ति।
तेन ईरानस्य रक्षा, प्रक्षेपास्त्र तथा मानवरहितविमानशक्तेः अधिकसुदृढीकरणस्य आवश्यकतायामपि बलं दत्तम्। तेन उक्तं यत् एतासां क्षमतानां विकासः स्वदेशीयक्षमतानां तथा स्वदेशीयप्रौद्योगिकीसामर्थ्यस्य आधारे निरन्तरं प्रवर्तिष्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani