जनगणना देशस्य सर्वाधिक-महत्त्वपूर्णा सांख्यिकी-प्रक्रिया - दीप-शिखा-शर्मा
मण्डीनगरम्, ०१ जुलाईमासः (हि.स.)। मण्डी-जनपदस्य करसोग-क्षेत्रे भारतस्य जनगणनासम्बद्ध-कार्यस्य प्रगति-समीक्षार्थं जनगणना-सञ्चालन-निदेशालयस्य निदेशिका दीप-शिखा-शर्मा-महोदयायाः अध्यक्षतायां सभा आयोजिता। अस्मिन् जनगणना-कार्यसम्बद्धाः अधिकारिणः, पर्यवेक
बैठक की अध्यक्षता करते हुए दीप शिखा शर्मा ।


मण्डीनगरम्, ०१ जुलाईमासः (हि.स.)। मण्डी-जनपदस्य करसोग-क्षेत्रे भारतस्य जनगणनासम्बद्ध-कार्यस्य प्रगति-समीक्षार्थं जनगणना-सञ्चालन-निदेशालयस्य निदेशिका दीप-शिखा-शर्मा-महोदयायाः अध्यक्षतायां सभा आयोजिता। अस्मिन् जनगणना-कार्यसम्बद्धाः अधिकारिणः, पर्यवेक्षकाः तथा प्रगणकाः सहभागिनः अभवन्। सभायां सा जनगणना-कार्यस्य, गृह-सूचीकरणस्य तथा आवास-गणना-कार्यस्य अद्यावधि जातां प्रगतिं समीक्ष्य उक्तवती यत् सर्वे सम्बद्धाः अधिकारिणः कर्मचारीणश्च निर्धारित-निर्देशानुसारं एतत् कार्यं समयबद्धतया दोषरहित-रीत्या च सम्पन्नं कुर्वन्तु।

सा अवदत् यत् जनगणना देशस्य सर्वाधिक-महत्त्वपूर्णा सांख्यिकी-प्रक्रिया अस्ति, अस्याः आधारेण एव विकास-योजनानां नीतिनां च निर्माणं क्रियते। अतः प्रत्येकः अधिकारी, प्रगणकश्च स्व-दायित्वानां निर्वहनं पूर्ण-निष्ठया, उत्तरदायित्वेन, पारदर्शितया च करोतु।

निदेशिका अवदत् यत् जनगणना-कार्यकाले प्रत्येकस्य परिवारस्य समीपं गमनं सुनिश्चितं क्रियताम् तथा सम्यक् पूर्णा विश्वसनीया च सूचना सङ्गृह्य विश्वसनीय-विवरणानां सङ्कलनं क्रियताम्। सा अवदत् यत् जनगणना-कार्यस्य गुणवत्तां परिरक्षितुं निर्धारित-निर्देशानां पालनम् अत्यावश्यकम् अस्ति, तदा एव सम्यक् विवरणं प्राप्तुं शक्यन्ते।

तया निर्देशाः दत्ताः यत् जनगणना-सम्बद्धानाम् सर्वेषाम् विवरणानां सूचनानां च गोपनीयता तथा दत्तांश-गोपनीयता सर्वेषु स्तरेषु सुनिश्चितीक्रियताम्। जनगणना-अधि-नियमस्य प्रावधानानुसारं प्रत्येकं प्रगणकस्य पर्यवेक्षकस्य च एतत् दायित्वम् अस्ति यत् ते आँकडानां गोपनीयतां रक्षेयुः। अस्मिन् अवसरे प्रगणकैः जनगणना-कार्यस्य कार्यान्वयने समुपस्थिताः विविधाः समस्याः प्रश्नाश्च निदेशिकायाः पुरतः प्रस्तुताः, येषां तया प्रभावी-समाधानं कृतम्। तया जनगणना-प्रक्रियायाम् अनुसर्तव्यां कार्यपद्धतिं, सूचनानां सम्यक् सङ्कलनम्, निर्धारित-प्रपत्राणां पूरण-सम्बद्धां सूचना अपि प्रदत्ता।

Hindusthan Samachar / Divya Ranjan