भोलेनाथस्य जयघोषैः लखनपुरम् अनुगुञ्जितम्, श्री-अमरनाथ-यात्रिकाणां प्रथम-दलस्य भव्य-स्वागतम्
कठुआनगरम्, ०१ जुलाईमासः (हि.स.)। श्री-अमरनाथ-यात्रा-२०२६ इत्यस्य शुभारम्भेन सह जम्मू-कश्मीरस्य प्रवेशद्वारे लखनपुरे बुधवासरे यात्रिणां प्रथम-दलस्य भव्यं स्वागतम् अभवत्। “बम् बम् भोले” तथा “जय बाबा बर्फानी” इति जयघोषैः समग्रः प्रदेशः श्रद्धया उत्साह
Lakhanpur echoes with chants of 'Bholenath'; grand welcome for the first batch of Amarnath pilgrims


कठुआनगरम्, ०१ जुलाईमासः (हि.स.)। श्री-अमरनाथ-यात्रा-२०२६ इत्यस्य शुभारम्भेन सह जम्मू-कश्मीरस्य प्रवेशद्वारे लखनपुरे बुधवासरे यात्रिणां प्रथम-दलस्य भव्यं स्वागतम् अभवत्। “बम् बम् भोले” तथा “जय बाबा बर्फानी” इति जयघोषैः समग्रः प्रदेशः श्रद्धया उत्साहेन च अनुगुञ्जितः अभवत्।

कठुआ-जनपद-प्रशासनेन यात्रिकाणां स्वागताय विशेष-व्यवस्थाः कृताः। अस्मिन् अवसरे उपायुक्तः राजेश-शर्मा, एसएसपी मोहिता-शर्मा, अतिरिक्त-जनपद-विकास-अधिकारिणी महिमा-मदान, अन्ये च नागरिक-प्रशासनस्य आरक्षक-प्रशासनस्य वरिष्ठ-अधिकारिणः पुष्पमालाभिः यात्रिणां विधिवत् स्वागतम् अकुर्वन्। लखनपुर-यात्रि-सुविधा-केन्द्रम् पूर्णतया सक्रियं कृतम्, यत्र यात्रिकाणां सुविधार्थं व्यापकाः व्यवस्थाः कृताः। तत्र षट् आरएफआईडी-पञ्जीकरण-कक्षाः तथा द्वादश ई-केवाईसी-कक्षाः स्थापिताः, येषां माध्यमेन पञ्जीकृत-यात्रिकाणां सत्यापनं कृत्वा आरएफआईडी-परिचयपत्राणि प्रदीयन्ते।

यात्रिणां सुविधायाः सर्वाः व्यवस्थाः प्रशासनद्वारा निरन्तरं निरीक्ष्यन्ते, येन कस्यापि प्रकारस्य असुविधायाः सम्भावना न भवेत्। यात्रिणां स्वागतार्थं कठुआ-जनपद-सूचना-केन्द्रेण विशेषः सांस्कृतिक-कार्यक्रमः अपि आयोजितः। तस्मिन् स्थानीय-कलाकारैः शिव-ताण्डव-स्तोत्रस्य भजनानां च सुमधुरा प्रस्तुति: कृता, येन समग्रं वातावरणं भक्तिमयं जातम्। एषा सांस्कृतिक-प्रस्तुतिः यात्रिणां स्वागतं अधिकं स्मरणीयम् अकरोत्।

उपायुक्तः राजेश-शर्मा यात्रिभि: सह संवादं कृत्वा तेभ्यः शुभकामनाः अददात् तथा तेषां सुरक्षित-सुगम-सुखकर-यात्रायै सर्वाः आवश्यक-व्यवस्थाः कृताः सन्तीति आश्वासनम् अददात्। तेन उक्तं यत् सहायता-केन्द्रम्, चिकित्सोपचार-सुविधा, स्वच्छता-व्यवस्था तथा अन्याः आवश्यक-सेवाः विविध-विभागानां समन्वयेन उपलब्धाः कृताः सन्ति।

तेन पुनः उक्तं यत् लखनपुर-यात्रि-सुविधा-केन्द्रं आधुनिकं समग्र-सहायता-केन्द्ररूपेण विकसितम् अस्ति, यत्र प्रशासनिक-दक्षतया सह कठुआ-जनपदस्य पारम्परिकम् आतिथ्यमपि दृश्यते। श्री-अमरनाथ-यात्रा-२०२६ तृतीय-जुलाई-दिनाङ्कात् अष्टाविंशति-अगस्त-दिनाङ्कपर्यन्तं भविष्यति। अस्यां यात्रायां देशस्य विभिन्न-प्रदेशेभ्यः श्रद्धालवः दक्षिण-कश्मीरस्य अनन्तनाग-जनपदे स्थितां पवित्रां गुहां गत्वा बाबा बर्फानी-दर्शनं करिष्यन्ति। अनन्तरं जनपद-प्रशासनेन यात्रिकाणां प्रथम-दलं विधिवत् प्रेषितः। सुरक्षा-व्यवस्थायाः मध्ये यात्रिण: जम्मू-आधार-शिविराय प्रस्थिताः, यतः यात्रायाः औपचारिकः प्रारम्भः द्वितीय-जुलाई-प्रातःकाले निर्धारितः अस्ति।

Hindusthan Samachar / Divya Ranjan