बलरामपुरम् : राष्ट्रिय ग्रामीण आजीविका मिशन ,25 सहस्रस्य लघु ऋणं परिवर्तयति पूनम इत्यस्याः भाग्यम्
बलरामपुरम्, 01 जुलाईमासः (हि.स.)।अनेकवारं लघ्वी अपि सहायता कस्यचित् जीवने महान् परिवर्तनम् आनयति। बलरामपुरजनपदस्य लुरघुट्टाग्रामनिवासिन्याः पूनमकुशवाहायाः कथा अपि एतादृशस्य परिवर्तनस्य प्रेरणादायिनी दृष्टान्तः अस्ति। या पूर्वं परिवारस्य आर्थिकसङ्कट
लाभार्थी महिला।


बलरामपुरम्, 01 जुलाईमासः (हि.स.)।अनेकवारं लघ्वी अपि सहायता कस्यचित् जीवने महान् परिवर्तनम् आनयति। बलरामपुरजनपदस्य लुरघुट्टाग्रामनिवासिन्याः पूनमकुशवाहायाः कथा अपि एतादृशस्य परिवर्तनस्य प्रेरणादायिनी दृष्टान्तः अस्ति। या पूर्वं परिवारस्य आर्थिकसङ्कटेन पीडिता आसीत्, सा अद्य अजपालनस्य शाकभाजीउत्पादनस्य च माध्यमेन न केवलं स्वपरिवारस्य आयं वर्धयति, अपितु ग्रामस्य अन्यासां महिलानामपि प्रेरणास्रोता अभवत्। राष्ट्रीयग्रामीणाजीविकामिशनस्य अन्तर्गतं स्वसहायतासमूहात् प्राप्तेन केवलं पञ्चविंशतिसहस्ररूप्यकाणां ऋणेन तस्याः जीवनस्य दिशा परिवर्तिता।

सङ्ग्राहकस्य चन्दनसञ्जयत्रिपाठिनः मार्गदर्शने तथा जिलापञ्चायत्याः मुख्यकार्यपालनाधिकाऱ्याः नयनतारासिंहतोमरस्य नेतृत्वे जनपदे राष्ट्रियग्रामीणाजीविकामिशनस्य माध्यमेन ग्रामीणमहिलानां आर्थिकसशक्तीकरणाय निरन्तरं प्रयत्नाः क्रियन्ते। तेषां प्रयत्नानां सकारात्मकः परिणामः अधुना ग्रामे ग्रामे दृश्यते। पूनमकुशवाहा तस्याः सफलस्य प्रेरणादायकस्य च उदाहरणम् अस्ति।

कतिपयवर्षपूर्वं पूनमकुशवाहायाः परिवारस्य स्थितिः सामान्यग्रामीणपरिवारवत् सङ्घर्षपूर्णा आसीत्। तस्याः पतेः आनन्दकुशवाहस्य सीमितायाः आयाः कारणात् गृहव्ययस्य निर्वाहः कठिनः अभवत्। बालकानां शिक्षायाः, गृहावश्यकतानां तथा भविष्यचिन्तायाः भारः सदा परिवारस्य उपरि आसीत्। पूनम अपि परिवारस्य आर्थिकदायित्वे योगदानं दातुम् इच्छति स्म, किन्तु पर्याप्तधनाभावात् किमपि व्यवसायम् आरब्धुं न अशकत्।

अस्मिन्नेव काले सा राष्ट्रियग्रामीणाजीविकामिशन इत्यस्य अन्तर्गतं सञ्चालितस्य पार्वतीमहिलास्वसहायतासमूहस्य सदस्यत्वम् अलभत। समूहेन सह सम्बद्धा भूत्वा सा नियमितसञ्चयं कृतवती, उपवेशनेषु सहभागित्वं कृतवती तथा आजीविकासम्बद्धानि विविधप्रशिक्षणानि प्राप्तवती। समूहस्य माध्यमेन तस्यै बैङ्केन सह सम्बन्धस्य अवसरः प्राप्तः तथा पञ्चविंशतिसहस्ररूप्यकाणां ऋणम् उपलब्धम् अभवत्। एषा लघ्वी आर्थिकसहायता तस्याः नूतनजीवनारम्भस्य आधारः अभवत्।

ऋणप्राप्तेः अनन्तरं पूनम सम्यक् योजनया अजपालनस्य कार्यम् आरब्धवती। सा उन्नतजातीयाः अजाः अक्रीणात् तथा पशुपालनविभागेन निर्दिष्टान् वैज्ञानिकान् उपायान् अनुसृत्य तासां पालनपोषणम् अकरोत्। समुचितपरिचर्यया, समये टीकाकरणेन तथा सन्तुलिताहारेण तस्याः अजानां संख्या गुणवत्तायाः च निरन्तरं वृद्धिः अभवत्। समये समये अजानां विक्रयात् तस्यै उत्तमा आयः प्राप्ता।

अजपालनेन सह पूनम उपलब्धसंसाधनानां समुचितोपयोगस्य निर्णयम् अकरोत्। अजेभ्यः प्राप्तां जैविकखादं सा स्वकीयगृहवाटिकायां प्रयुक्तवती। ततः सा टमाटरम्, मरीचिका, वृन्ताकम् सहितानि अनेकानि ऋतुकालीनशाकानि उत्पादयितुम् आरब्धवती। जैविकखादस्य उपयोगेन सस्यस्य गुणवत्ता उत्तमा अभवत् तथा उत्पादनमपि वर्धितम्। ग्रामे समीपस्थस्थानीयविपणिषु च एतेषां शाकानां उत्तमा मागः अभवत्, येन तस्याः आयाः अपरः स्थायी स्रोतः अपि निर्मितः।

अद्य पूनमकुशवाहायाः परिश्रमस्य फलम् सम्पूर्णः परिवारः प्राप्नोति। यत्र पूर्वं गृहव्ययस्य निर्वाहः एव चुनौती आसीत्, तत्र अधुना परिवारस्य आर्थिकस्थितिः पूर्वापेक्षया अत्यन्तं सुदृढा अभवत्। बालकानां शिक्षा सम्यक् प्रचलति, गृहावश्यकताः समये पूर्यन्ते तथा भविष्याय सञ्चयोपि क्रियते। सर्वाधिकमहत्त्वपूर्णा वार्ता एषा यत् सा स्वसहायतासमूहात् प्राप्तं ऋणं समये एव प्रत्यर्पयितुम् आरब्धवती, येन तस्याः आर्थिकविश्वसनीयता अपि वर्धिता।

पूनमकुशवाहा वदति यत् स्वसहायतासमूहे सहभागिता तस्याः जीवनस्य सर्वाधिकमहत्त्वपूर्णः निर्णयः अभवत्। तस्याः मतम् अस्ति यत् पूर्वं तस्याः मनसि आसीत् यत् महतीं पूंजीं विना किमपि कार्यं कर्तुं न शक्यते, किन्तु समूहात् प्राप्तेन पञ्चविंशतिसहस्ररूप्यकाणां ऋणेन तस्याः चिन्तनं परिवर्तितम्। अधुना सा आत्मविश्वासेन स्वपरिवारस्य आयं वर्धयति तथा ग्रामस्य अन्याः महिलाः अपि स्वरोजगारं स्वीकर्तुम् प्रेरयति।

राष्ट्रीयग्रामीणाजीविकामिशनस्य माध्यमेन जनपदे अनेकाः महिलाः स्वरोजगारेण संयोजयितुं अभियानं निरन्तरं प्रवर्तते। स्वसहायतासमूहानां माध्यमेन महिलाभ्यः सञ्चयः, बैङ्कसेवा, प्रशिक्षणम् तथा ऋणसुविधाः प्रदीयन्ते, येन ताः स्वान् लघुव्यवसायान् आरभ्य आर्थिकदृष्ट्या आत्मनिर्भराः भवन्ति। पूनमकुशवाहायाः सफलता एतस्य प्रमाणम् अस्ति यत् यदि सम्यक्समये मार्गदर्शनम्, प्रशिक्षणम् तथा अल्पा आर्थिकसहायता लभ्यते तर्हि ग्रामीणमहिलाः न केवलं स्वपरिवारस्य आर्थिकस्थितिं परिवर्तयितुं शक्नुवन्ति, अपितु सम्पूर्णसमाजस्य प्रेरणापि भवितुं समर्थाः भवन्ति।

Hindusthan Samachar / Dheeraj Maithani