Enter your Email Address to subscribe to our newsletters


जयपुरम्, 01 जुलाईमासः (हि.स.)।
जयपुरनगरस्य आरआईसी परिसरस्य बुधवासरात् द्विदिवसीयः एकोनत्रिंशत्तमः राष्ट्रिय ई गवर्नेन्स सम्मेलनः प्रारब्धः। उद्घाटनसमारोहे मुख्यमन्त्री भजनलाल शर्मा अवदत् यत् द्विसहस्रचतुर्दशवर्षे प्रधानमन्त्री नरेन्द्रमोदी प्रौद्योगिक्याः प्रभावीप्रयोगस्य आरम्भं कृतवान्। तस्यैव क्रमस्य अन्तर्गतं जनधन आधार चलदूरभाषव्यवस्थायाः माध्यमेन मध्यस्थानां हस्तक्षेपः समाप्तः। प्रत्यक्षलाभहस्तान्तरणव्यवस्थया प्रत्येकयोजनायाः लाभः प्रत्यक्षतया लाभार्थिनां वित्तलेखेषु प्रापितः। डिजिटल भारत अभियानं यूपीआई व्यवस्था च विशेषरूपेण प्रोत्साहिता।
अस्मिन् अवसरे मुख्यमन्त्रिणा स्मार्ट परियोजना ई मित्र व्हाट्सएप सेवा राजस्थान इनोवेशन चैलेंज इत्येतयोः शुभारम्भः कृतः। तेन सह काफी टेबल बुक इत्यस्य अपि विमोचनं कृतम्। ततः पूर्वं तेन प्रौद्योगिकीसेवाभिः आधारितायाः प्रदर्शन्याः उद्घाटनं कृत्वा तस्याः अवलोकनं कृतम्।
अस्मिन् अवसरे सूचनाप्रौद्योगिकी सञ्चारमन्त्री कर्नल राज्यवर्धन राठौड संसदीयकार्यमन्त्री जोगाराम पटेल मुख्यसचिवः वी श्रीनिवास इलेक्ट्रॉनिक्स तथा सूचनाप्रौद्योगिकी विभागस्य सचिवः एस कृष्णन प्रशासनिकसुधार लोकपरिवादविभागस्य सचिवा निवेदिता शुक्ला वर्मा शासनसचिवः सूचनाप्रौद्योगिकी सञ्चारविभागस्य रवि कुमार सुरपुर विभिन्नविभागानां वरिष्ठाधिकारिणः प्रौद्योगिकीक्षेत्रसम्बद्धाः उद्यमिनः प्रौद्योगिकीविशेषज्ञाः नवप्रारम्भिकउद्यमव्यावसायिकाश्च बहुसंख्यया उपस्थिताः आसन्।
अनन्तरं मुख्यमन्त्री उद्योगप्रतिनिधिभिः सह गोलमेजवार्तायां सहभागित्वं कृतवान्। तेन उक्तं यत् दत्तांशकेन्द्राणां कृत्रिमबुद्धिमत्तायाः प्रौद्योगिकीसम्बद्धनवाचाराणां च प्रोत्साहनार्थं राजस्थाने महत्त्वपूर्णाः नीतयः प्रवर्तिताः। उद्यमिभ्यः सर्वप्रकारसहायतां प्रदातुं राज्यसर्वकारः पूर्णतया सज्जः अस्ति।
अयं सम्मेलनः केन्द्रीयप्रशासनिकसुधार लोकपरिवादविभागेन इलेक्ट्रॉनिक्स तथा सूचनाप्रौद्योगिकीमन्त्रालयेन राजस्थानसर्वकारेण च संयुक्ततत्त्वावधाने आयोजितः अस्ति। अस्य वर्षस्य विषयः विकसितभारतम् २०४७ कृत्रिमबुद्धिमत्तासक्षमं दत्तांशसञ्चालितं सुरक्षितं च डिजिटलप्रशासनम् इति निर्धारितः अस्ति।
द्वितीयजुलै दिनाङ्के समापनपुरस्कारवितरणसमारोहे केन्द्रीयविज्ञानप्रौद्योगिकी पृथ्वीविज्ञानराज्यमन्त्री स्वतन्त्रप्रभारयुक्तः प्रधानमन्त्रीकार्यालय कार्मिक लोकपरिवाद पेंशन परमाणुशक्ति अन्तरिक्षराज्यमन्त्री डा जितेन्द्र सिंह मुख्यातिथिरूपेण उपस्थितः भविष्यति। तस्य करकमलाभ्यां राष्ट्रिय ई गवर्नेन्स पुरस्काराः प्रदास्यन्ते।
द्विदिवसीये अस्मिन् सम्मेलने द्विसहस्रसप्तशताधिकाः प्रतिनिधयः द्विशताधिकाः राष्ट्रिय अन्तरराष्ट्रीयवक्तारः भारतसर्वकारस्य वरिष्ठसचिवाः विभिन्नराज्यानां वरिष्ठप्रशासनिकाधिकारिणः चतुःशताधिकाः शिक्षाविदः एकसहस्रशताधिकाः नवप्रारम्भिकउद्यमिनः उद्योगप्रतिनिधयः शोधकर्तारश्च सहभागित्वं कुर्वन्ति।
सम्मेलने षट् मुख्यसत्राणि षट् विशेषसत्राणि च आयोज्यन्ते। तेषु कृत्रिमबुद्धिमत्त्याधारितप्रशासनम् सुरक्षितडिजिटलअवसंरचना दत्तांशाधारितनिर्णयप्रणाली स्मार्टपुलिसव्यवस्था सार्वजनिकसुरक्षा गहनप्रौद्योगिकी स्वरप्रधानसमाधानानि भविष्यस्य डिजिटलप्रशासनव्यवस्थाश्च इत्यादिषु विषये विशेषज्ञाः स्वविचारान् विनिमेष्यन्ति।
एतदतिरिक्तं डिजिटलसुशासनक्षेत्रे उत्कृष्टकार्यं कुर्वतां संस्थानानां परियोजनानां च सम्मानार्थं सम्मेलनकाले षोडश राष्ट्रिय ई गवर्नेन्स पुरस्काराः स्वर्ण रजतश्रेण्योः प्रदास्यन्ते। तदतिरिक्तम् एकः विशेषनिर्णायकमण्डलपुरस्कारः अपि प्रदास्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani