भारतीय दूरसंचार विनियामक प्राधिकरणस्य दूरवाणीसंचारपरीक्षणे उडुप्यां जियो उत्तमं, बीएसएनएल पृष्ठे
नवदिल्ली, 01 जुलाईमासः (हि.स.)। भारतीयदूरसञ्चारविनियामकप्राधिकरणेन कर्नाटकप्रदेशस्य उडुपी जनपदे कृते चलदूरभाषजालपरीक्षणे रिलायन्स जियो इत्यस्य प्रदर्शनम् उत्कृष्टतमं प्राप्तम्। परीक्षणकाले जियो संस्थया अवतरणवेगस्य जालव्याप्तेः दूरभाषसम्भाषणगुणवत्
ट्राई


नवदिल्ली, 01 जुलाईमासः (हि.स.)।

भारतीयदूरसञ्चारविनियामकप्राधिकरणेन कर्नाटकप्रदेशस्य उडुपी जनपदे कृते चलदूरभाषजालपरीक्षणे रिलायन्स जियो इत्यस्य प्रदर्शनम् उत्कृष्टतमं प्राप्तम्। परीक्षणकाले जियो संस्थया अवतरणवेगस्य जालव्याप्तेः दूरभाषसम्भाषणगुणवत्तायाश्च अधिकांशमानदण्डेषु अन्याः संस्थाः अतिक्रान्ताः। सार्वजनिकक्षेत्रस्य बीएसएनएल संस्थायाः तु जालव्याप्तेः दूरभाषविच्छेदस्य दत्तांशवेगस्य च विषये न्यूनतमं प्रदर्शनं दृष्टम्।

केन्द्रीयसञ्चारमन्त्रालयस्य अनुसारं भारतीयदूरसञ्चारविनियामकप्राधिकरणेन एतत् चलदूरभाषजालपरीक्षणं मार्चमासस्य सप्तदशदिनाङ्कात् विंशतिदिनाङ्कपर्यन्तं उडुपी जनपदे आयोजितम्। अस्य अन्तर्गतं पञ्चत्रिंशदधिकपञ्चशतकिलोमीटरपरिमितः नागरमार्गः पञ्चदश प्रमुखहॉटस्पॉट क्षेत्राणि नवदशमलवाष्ट किलोमीटरपरिमितं पदयात्रापरीक्षणक्षेत्रं तटीयप्रदेशेषु च चलदूरभाषसेवानां गुणवत्तायाः व्यापकं मूल्याङ्कनं कृतम्। अस्मिन् एयरटेल बीएसएनएल रिलायन्स जियो वोडाफोन आइडिया इत्येतासां संस्थानां जालसेवानां परीक्षणं सम्पन्नम्।

आधिकारिकप्रतिवेदनानुसारं जालव्याप्तेः विषये जियो संस्थायाः षट्चत्वारिंशत्सहस्रसप्ताशीत्यधिकाः नमूनाः परीक्षिताः येषु केवलं चतुःसहस्रपञ्चषष्ट्यधिकाः नमूनाः दुर्बलसंकेतयुक्ताः प्राप्ताः। एयरटेल संस्थायां पञ्चसहस्रत्रिशतचत्वारः वोडाफोन आइडिया संस्थायां एकादशसहस्रद्विशतएकोनविंशतिः बीएसएनएल संस्थायां च सर्वाधिकाः अष्टादशसहस्रषट्शतत्रिचत्वारिंशत् नमूनाः दुर्बलसंकेतयुक्ताः अभिलेखिताः। दूरभाषविच्छेदस्य विषये एयरटेल संस्थायाः प्रदर्शनम् उत्कृष्टतमम् आसीत् यत्र चत्वारिशतविंशतिः सफलसम्भाषणेषु केवलम् एका विच्छेदघटना अभवत्। जियो संस्थायां चत्वारः वोडाफोन आइडिया संस्थायां त्रयोदश बीएसएनएल संस्थायां च सर्वाधिकाः द्वाविंशतिः दूरभाषविच्छेदाः अभिलेखिताः।

सम्भाषणकाले स्वरविघटनस्य घटनासु जियो संस्थायाः प्रदर्शनम् अपेक्षया श्रेष्ठम् आसीत्। चतुःशतद्विसम्भाषणेषु केवलं षोडश घटनाः अभिलेखिताः। एयरटेल संस्थायां त्रिंशत् बीएसएनएल संस्थायां द्वाविंशतिः वोडाफोन आइडिया संस्थायां द्वात्रिंशत् घटनाः दृष्टाः। दत्तांशावतरणवेगस्य विषये अपि जियो संस्था प्रति सेकण्डं शतनवतिसप्तदशदशमलवचत्वारिंशत् मेगाबिट् इति औसतवेगेन प्रथमस्थाने आसीत्। एयरटेल संस्थायाः अवतरणवेगः षण्णवतिदशमलवपञ्चचत्वारिंशत् वोडाफोन आइडिया संस्थायाः त्रयोविंशतिदशमलवनव बीएसएनएल संस्थायाः केवलं पञ्चदशमलवपञ्चषष्टिः मेगाबिट् प्रति सेकण्डम् अभवत्।

दत्तांशारोपणवेगस्य विषये एयरटेल संस्था प्रति सेकण्डं सप्तदश मेगाबिट् वेगेन प्रथमस्थाने आसीत्। जियो संस्थायाः औसतारोपणवेगः चतुर्दशदशमलवाष्टसप्ततिः वोडाफोन आइडिया संस्थायाः दशदशमलवएकाशीतिः बीएसएनएल संस्थायाः एकदशमलवषट्सप्ततिः मेगाबिट् प्रति सेकण्डम् अभवत्। तटीयप्रदेशेषु मालपे समुद्रतटात् सेन्ट मेरी द्वीपपर्यन्तं कोडी कायक प्वाइण्ट् सलिग्राममार्गपर्यन्तं कृते पृथक्परीक्षणे अपि जियो संस्था प्रति सेकण्डं शतचतुःसप्ततिदशमलवपञ्चपञ्चाशत् मेगाबिट् अवतरणवेगेन प्रथमस्थाने आसीत्। एयरटेल संस्थायाः वेगः नवाशीतिदशमलवएकचत्वारिंशत् वोडाफोन आइडिया संस्थायाः नवदशमलवअष्टषष्टिः बीएसएनएल संस्थायाः त्रिदशमलवएकनवतिः मेगाबिट् प्रति सेकण्डम् अभवत्।

भारतीयदूरसञ्चारविनियामकप्राधिकरणेन उडुपी रेलस्थानकं श्रीकृष्णमन्दिरम् मणिपाल मालपे समुद्रतटः कुण्डापुरा कार्कला पदुबिद्री बाइन्दूर इत्यादीनि अनेकानि प्रमुखस्थानानि अस्याः परीक्षणप्रक्रियायाः अन्तर्गतं समाविष्टानि।

---------------