Enter your Email Address to subscribe to our newsletters

सहारनपुरम्, ०१ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः बुधवासरे सहारनपुरे ६१३-कोटि-रूप्यकेभ्यः अधिक-मूल्यानां विकास-परियोजनानां लोकार्पणं शिलान्यासं च कृत्वा समाजवादी-पक्षं काङ्ग्रेस-पक्षं च तीव्रतया आलोचितवान्। राममन्दिरस्य दानविषये विपक्षस्य निराधार-प्रलापम् अधिकृत्य सः अवदत्— यदा कांवड़-यात्रा निरुद्धा आसीत्, मन्दिराणां सौन्दर्यीकरणार्थं निर्धारितं धनं कब्रिस्तान-निर्माणे व्ययीकृतम् आसीत्, दुर्गापूजा-जन्माष्टमी-उत्सवयोः आयोजनमपि न अनुमन्यते स्म, तदा एतेषाम् आस्था कुत्र आसीत्? सः संचेतनाम् अयच्छत् यत् इदानीम् एतादृशं किमपि न भविष्यति। प्रधानमन्त्री नरेन्द्र-मोदिनः नेतृत्वे दिव्या भव्याऽयोध्या त्रेतायुगस्य स्मरणं कारयति, अधुना च अयोध्या अवरुद्धा न भविष्यति।
मुख्यमन्त्री योगी-आदित्यनाथः पश्चिमोत्तरप्रदेशस्य समग्र-प्रदेशस्य च विकासाय निरन्तरं प्रयतते। शासकीय-दायित्वानां व्यस्ततायामपि सः निरन्तरं जनसंवादं करोति। जुलाईमासस्य प्रथमदिने सः सहारनपुरम् आगत्य विद्यालयं चल अभियानस्य द्वितीय-चरणस्य शुभारम्भम् अकरोत्। तेन ६१३-कोटि-रूप्यकेभ्यः अधिक-मूल्यानां विकास-परियोजनानां लोकार्पणं शिलान्यासं च कृतम्। पञ्चमासेषु पञ्चमवारं सहारनपुरम् आगत्य सः प्रत्येकस्मिन् अवसरे जनसम्बद्धानां संवेदनशील-विषयाणां समीक्षां कृतवान्, समस्याः निराकृत्य विकासस्य प्रवाहं च प्रवर्तितवान्। सभायां सः स्वसर्वकारस्य विविध-जनकल्याण-योजनानां विस्तरेण उल्लेखं कृत्वा अवदत् यत् उत्तरप्रदेशः सर्वेषु क्षेत्रेषु द्रुतगत्या प्रगतिं करोति। अद्य लोकार्पिताः शिलान्यस्ताश्च विकास-परियोजनाः विकसित-भारतस्य लक्ष्यस्य आधारशिलाः भविष्यन्ति। विकसित-आत्मनिर्भर-भारतस्य निर्माणाय परम्परा-विकासयोः समुचितः समन्वयः आवश्यकः इति सः उक्तवान्।
जनैः सह प्रत्यक्ष-संवादं कुर्वन् मुख्यमन्त्री अवदत् यत् गत-१४-अप्रैल-दिने डॉ.भीमराव-अम्बेडकर-जयंती-अवसरे प्रधानमन्त्री नरेन्द्र-मोदी सहारनपुरम् आगत्य प्रायः १२-सहस्र-कोटि-रूप्यक-व्ययेन निर्मितस्य दिल्ली-सहारनपुर-देहरादून-आर्थिक-परिसरस्य लोकार्पणम् अकरोत्। अनेन परिसरेण सहारनपुरस्य देहल्या सह सम्पर्कः अत्यन्तं सुदृढः अभवत् तथा अधुना सहारनपुरात् देहलीनगरं प्रति यात्रा प्रायः सार्धैक-होरायामेव सम्पद्यते।
पञ्चमासेषु पञ्चवारं सहारनपुर-भ्रमणेन मुख्यमन्त्रिणा नगरस्य महत्त्वं प्रदर्शितम्
पूर्व-सर्वकारैः उपेक्षितं सहारनगरं मुख्यमन्त्री योगी-आदित्यनाथः प्रगतिपथे अग्रे नीतवान्। पूर्व-सर्वकारस्य मुख्यमन्त्री पञ्चवर्षेषु केवलम् एकवारं द्विवारं वा सहारनपुरम् आगतः, किन्तु योगी-आदित्यनाथः पञ्चमासेषु पञ्चवारं सहारनपुरम् आगत्य अस्य महत्त्वं प्रतिपादितवान्। मार्च-मासात् जुलाईमासपर्यन्तं सः निरन्तरं सहारनपुरम् आगत्य अनेकेषां विकास-कार्याणां गतिं वर्धितवान्। सः सहारनपुरसहितं प्रदेशस्य सर्वेषु ७५ जनपदेषु समानरूपेण विकास-कार्याणि प्रवर्तितवान्।
सहारनपुराय क्रीडा-महाविद्यालयस्य उपहार:, प्रथमवारं भारोत्तोलनस्य शिक्षणम्
सहारनगरे क्रीडकानामपि महान् उपहार: प्रदत्त:। योगी-सर्वकारेण द्वयोः नवीनयोः क्रीडा-महाविद्यालययोः आरम्भस्य निर्णयः कृतः, तयोः अन्यतमं सहारनपुर-क्रीडा-महाविद्यालयम् अस्ति। अस्य शैक्षणिक-सत्रं २०२६-२७ तः आरब्धम्। २०११ तमे वर्षे आरब्धस्य किन्तु लम्बितस्य अस्य निर्माणस्य समापनं योगी-सर्वकारेण कारितम्। अत्र क्रीडकाणां कृते ८० आसनानि निर्धारितानि सन्ति। अत्र एथलेटिक्स-धावकानां, लङ्घकानां, क्षेपकाणां, हॉकी-क्रीडकाणां, गोलरक्षकाणां, जूडो-क्रीडकाणां, मुक्कायुद्ध-क्रीडकाणां तथा भारोत्तोलनस्य प्रशिक्षणस्य व्यवस्था कृता अस्ति। भारोत्तोलनस्य शिक्षणं प्रदेशस्य कस्यापि क्रीडा-महाविद्यालये पूर्वं नासीत्; तत् प्रथमवारम् अस्मिन् महाविद्यालये आरभ्यते।
मार्च-मासात् जुलाईमासपर्यन्तं मुख्य-मन्त्रिणः सहारनपुर-भ्रमणानि
१४ मार्चमास: — शाकुम्भरी-माता-मन्दिरं तथा बाबा-भूरादेव-मन्दिरं गत्वा पर्यटन-परियोजनानाम् निरीक्षणम् अकरोत्।१४ अप्रैलमास: — दिल्ली-बागपत-सहारनपुर-देहरादून-आर्थिक-परिसरस्य शुभारम्भ-अवसरे सहारनपुरम् आगतः।७ मईमास: — देवबन्दे २१३१-कोटि-रूप्यक-मूल्यानां ३२५ विकास-परियोजनानां लोकार्पणं शिलान्यासं च कृत्वा १६००-भ्यः अधिकेभ्यः लाभार्थिभ्यः जनकल्याण-योजनानां लाभं प्रदत्तवान्।१ जूनमास: — माता-शाकुम्भरी-देवी-सिद्धपीठे दर्शन-पूजनं कृत्वा बाढ-प्रभावित-क्षेत्राणां भ्रमणं तथा समीक्षासभां च अकरोत्।१ जुलाईमास: — विद्यालयं चल अभियानस्य द्वितीय-चरणस्य शुभारम्भं कृत्वा ६१३-कोटि-रूप्यकेभ्यः अधिक-मूल्यानां विकास-परियोजनानां लोकार्पणं शिलान्यासं च कृतवान् तथा विविध-योजनानां लाभार्थिभ्यः प्रमाणपत्राणि वितरितवान्।
Hindusthan Samachar / Divya Ranjan