आरती-देव्याः पक्व-गृहस्य स्वप्नं साकारम्, आवास-योजनायाः लाभः प्राप्तः
फिरोजाबादनगरम्, ०१ जुलाईमासः (हि.स.)। जीर्ण-छप्परयुक्ते कुटीरसदृशे गृहे निवसन्त्याः आरती-देव्याः दृढ-गृहस्य स्वप्नं साकारम् अभवत्। प्रधानमन्त्री-आवास-योजनाया: लाभेन पक्क-गृहस्य निर्माणानन्तरं आरती-देवी तथा तस्याः बालकाः न केवलं प्राकृतिक-आपदाभ्यः म
आवास योजना लाभार्थी आरती देवी


आवास


फिरोजाबादनगरम्, ०१ जुलाईमासः (हि.स.)। जीर्ण-छप्परयुक्ते कुटीरसदृशे गृहे निवसन्त्याः आरती-देव्याः दृढ-गृहस्य स्वप्नं साकारम् अभवत्। प्रधानमन्त्री-आवास-योजनाया: लाभेन पक्क-गृहस्य निर्माणानन्तरं आरती-देवी तथा तस्याः बालकाः न केवलं प्राकृतिक-आपदाभ्यः मुक्तिं प्राप्तवन्तः, अपितु तेषां जीवने गाढः आत्मविश्वासः सुरक्षायाः भावना च जागृता।

फिरोजाबाद-जनपदस्य अरांव-विकासखण्डस्य किसरांव-ग्राम-पञ्चायतस्य मूलनिवासिनी आरती-देव्याः जीवनकथा महान् संघर्षस्य साक्षिणी अस्ति। प्रधानमन्त्री-आवास-योजनाया: लाभप्राप्तेः पूर्वं सा स्वपतिना अनवर-सिंहेन सह पञ्चसदस्यीयेन परिवारेण सह जीर्ण-छप्परयुक्ते कुटीरसदृशे गृहे निवसन्ती आसीत्। सा स्वबालकानां परिवारस्य च सुरक्षां प्रति सर्वदा चिन्तिता आसीत्।

आरती-देवी अवदत् यत् वर्षाकाले वर्षाजले पतति सति अस्माकं कुटीरस्य चतुर्दिक्षु जलम् उपतिष्ठति स्म। छप्परात् निरन्तरं जलस्य स्रवणं तस्य पतनस्य भयम् च अस्मान् शान्त्या निद्रां कर्तुं न ददाति स्म। अपरतः विषधर-जन्तूनां भयम् अपि सदा वर्तते स्म। तीव्र-शीतकाले उष्ण-ग्रीष्मकाले च लघु-बालकान् असुरक्षिते वातावरणे स्थापयितुं तेषां पालन-पोषणं च अत्यन्तं दुःसहम् आसीत्। सर्वाधिकं चिन्ताजनकं बालकानां सुरक्षा तथा तेषां अध्ययनम् आसीत्, यत् एतस्याः अव्यवस्थायाः कारणात् पूर्णतया बाधितम् अभवत्।

किन्तु परियोजना-निदेशकस्य सुभाष-चन्द्र-त्रिपाठी-महोदयस्य तथा खण्ड-विकास-अधिकारिणां समन्वित-प्रयत्नेन निष्पक्षतया आवास-प्लस्-सूची निर्मिता, यस्याम् आरती-देव्याः चयनम् अभवत्। चयनानन्तरं योजनान्तर्गतं तस्याः धनागारे त्रिषु पर्यायेषु प्रत्यक्षरूपेण आहत्य १,२०,००० रूप्यकाणि स्थानान्तरितानि। सर्वकारस्य एतेन सद्प्रयत्नेन सा स्वप्नस्य दृढं सुदृढं च गृहं निर्मितवती।

दृढ-गृहनिर्माणानन्तरं आरती-देवी तथा तस्याः बालकाः न केवलं प्राकृतिक-आपदाभ्यः मुक्तिं प्राप्तवन्तः, अपितु तेषां जीवने आत्मविश्वासः सुरक्षायाः भावना च अधिकं दृढा अभवत्। अधुना तस्याः बालकाः सुरक्षिते, शान्ते, सुव्यवस्थिते च वातावरणे स्वाध्ययनं निर्विघ्नं कुर्वन्ति।

आवास-योजनायाः लाभेन सह एव आरती-देव्यै स्वच्छ-भारत-अभियानस्य अन्तर्गतं शौचालयः, उज्ज्वला-योजनायाः अन्तर्गतं पाक-गैस-संयोजनम्, निःशुल्क-विद्युत्-संयोजनम्, आयुष्मान-परिचयपत्रम् तथा राशन-परिचयपत्रम् इत्यादीनां मूलभूत-सर्वकारीय-सुविधानाम् अपि लाभः प्राप्तः।

एतदतिरिक्तं मनरेगा-योजनायाः अन्तर्गतं गृहनिर्माणकाले तस्यै ९०-दिवसानां श्रमवेतनस्य लाभः अपि प्रदत्तः, येन तस्याः परिवारस्य आर्थिक-सुदृढीकरणे साहाय्यम् अभवत्।

शासनस्य प्रशासनस्य च सहयोगेन आरती-देवी अत्यन्तं भावुकतया प्रधानमन्त्रीणं, मुख्यमन्त्रिणं तथा जनपदाधिकारिणं सन्तोष-कुमार-शर्माणम् प्रति हार्दिकं कृतज्ञतां प्रकटितवती। परियोजना-निदेशकः सुभाष-चन्द्र-त्रिपाठी बुधवासरे अवदत् यत् प्रत्येकं पात्र-लाभार्थिने योजनायाः लाभः प्रदीयते।

Hindusthan Samachar / Divya Ranjan