Enter your Email Address to subscribe to our newsletters

— नूतनान्वेषणम् 'हायलोकमलोमाइसीज़' फंगसस्य वर्गीकरणे अतीव महत्वपूर्णम्
वाराणसी, 10 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य वाराणस्यां स्थितस्य काशीहिन्दूविश्वविद्यालयस्य वनस्पतिविज्ञानविभागस्य शोधकर्तृभिः पादपेषु रोगं प्रसारयतः विशिष्टस्य पादपरोगजनककवकस्य हायलोकमलोमाइसीज इति नूतनः वंशः अन्विष्टः। एषा महती वैज्ञानिकोपलब्धिः अस्ति या कवकवर्गीकरणविज्ञाने महत्त्वपूर्णं योगदानं ददाति तथा भारतस्य समृद्धां किन्तु अद्यापि बहुधा अनन्वेषितां कवकजैवविविधतां प्रकाशयति।
अस्य शोधस्य नेतृत्वं विभागस्य सहप्राध्यापकेन डा राघवेन्द्रसिंहेन कृतम्। तस्य शोधदले सौम्यदीपराजवारः संजययादवः संजीतकुमारवर्मा अर्चनासिंहश्च सम्मिलिताः सन्ति। अस्मिन् संयुक्ताध्ययने भारतस्य राष्ट्रियकवकसंवर्धसङ्ग्रहस्य आगरकरशोधसंस्थानस्य पुणेनगरस्य वैज्ञानिकः डा पारसनाथसिंहः चीनदेशस्य प्रोफेसर सामन्था पण्डितदीनदयालउपाध्यायगोरखपुरविश्वविद्यालयस्य डा गार्गीसिंहः केरलवनशोधसंस्थानस्य वरिष्ठवैज्ञानिकः डा शम्भुकुमारश्च सम्मिलिताः आसन्।
डा राघवेन्द्रसिंहस्य अनुसारं नवपरिचितस्य अस्य कवकस्य अन्वेषणम् उत्तरप्रदेशस्य चन्दौलीजनपदे स्थिते चन्द्रप्रभावन्यजीवाभयारण्ये कैसिया फिस्टुला इति पादपे अभवत्। अयं पादपः सामान्यतया अमलतास अथवा गोल्डन शावर ट्री इति नाम्ना ज्ञायते। अस्य पादपस्य पर्णेषु पर्णबिन्दुरोगरूपेण उद्भवन्त्या नवीनरोगावस्थया सह अस्य कवकस्य अन्वेषणं कृतम्।
तेन कथितं यत् अस्य प्रजातेः परिचयः आकारविज्ञानसम्बद्धैः संरचनात्मकाध्ययनैः संवर्धनाध्ययनैः इलेक्ट्रॉनसूक्ष्मदर्शिकया बहुजीनआणविकवंशविकासीयविश्लेषणेन च सह व्यापकपद्धतीनां माध्यमेन कृतः। वंशविकासीयपरिणामैः ज्ञातं यत् अयं कवकः पृथक् विकासीयवंशं निर्माति यः पूर्वज्ञातवंशेभ्यः सर्वथा भिन्नः अस्ति। अतः अस्य नूतनवंशरूपेण मान्यता वैज्ञानिकदृष्ट्या समुचिता अस्ति।
हायलोकमलोमाइसीज इति नाम्नि ग्रीकभाषायाः हयालो इति उपसर्गस्य प्रयोगः कृतः यस्य अर्थः काचः अथवा पारदर्शी इति अस्ति। अयं शब्दः कवकस्य पारदर्शिसंरचनाः सूचयति। अनेन सह कमलोमाइसीज इति पदं योजितम् अस्ति यत् गोरखपुरविश्वविद्यालयस्य प्रोफेसर कमलस्य सम्मानार्थं चितम्। सः अन्तरराष्ट्रीयस्तरे प्रसिद्धः कवकविशेषज्ञः अस्ति येन भारतस्य कवकजैवविविधतायाः विशेषतः सर्कोस्पोरोइड कवकसमूहस्य विषये अग्रगामि कार्यं कृतम् अस्ति तथा शोधकर्तॄणामनेकाः सन्ततयः प्रेरिताः सन्ति।
एषा खोजः अद्य शुक्रवासरे १० जुलाई २०२६ दिनाङ्के प्रतिष्ठितायां क्यू वन श्रेण्याम् अन्तरराष्ट्रीयशोधपत्रिकायां माइकोलाजिकल प्रोग्रेस इत्यस्यां प्रकाशिता अस्ति। एषा शोधपत्रिका जर्मनीदेशे जर्मन माइकोलाजिकल सोसाइटी इत्यस्य अधीने प्रकाश्यते। दीर्घकालीनसंरक्षणं भविष्यत्कालीनशोधं च सुनिश्चितं कर्तुं अस्य कवकस्य जीवितसंवर्धं पुणेनगरस्थिते भारतस्य राष्ट्रियकवकसंवर्धसङ्ग्रहे संरक्षितम् अस्ति।
डा राघवेन्द्रसिंहेन कथितं यत् कैसिया फिस्टुला सामान्यतया अमलतास इति नाम्ना ज्ञायमानः आयुर्वेदे महत्त्वपूर्णः औषधीयपादपः अस्ति। परम्परया अयं आरग्वध इति कथ्यते यस्य अर्थः रोगनाशकः इति अस्ति। अस्य पादपस्य विभिन्नभागानां मूलानां त्वचः पर्णानां पुष्पाणां फलमज्जायाश्च उपयोगः दीर्घकालात् रेचकत्वाय शोथनिवारणाय प्रतिउपचायकगुणाय रोगाणुनिवारणाय यकृत्संरक्षणाय श्वसनस्वास्थ्यलाभाय च क्रियते।
अस्य अन्वेषणस्य व्यापकं महत्त्वं प्रकाशयन् डा सिंहः अवदत् यत् भारतं स्वकीयविविधपारिस्थितिकतन्त्राणां कारणेन विश्वस्य प्रमुखेषु जैवविविधताकेन्द्रेषु अन्यतमम् अस्ति तथा कवकविविधतायाः वैश्विककेन्द्रमपि अस्ति। एते आवासाः सहस्रशः कवकप्रजातीनां पोषणं कुर्वन्ति याः पोषकतत्त्वचक्रणे पारिस्थितिकतन्त्रस्थैर्ये कृषौ जैवप्रौद्योगिक्यां नूतनजैवसक्रिययौगिकानामन्वेषणे च महत्त्वपूर्णां भूमिकां निर्वहन्ति।
वैज्ञानिकानां मतम् अस्ति यत् अनेकासु अज्ञातकवकप्रजातिषु नवीनौषधीनां धारणीयकृषिप्रौद्योगिकीनाम् अन्येषां जैवप्रौद्योगिकीप्रयोगाणां च विकासाय अपारक्षमता भवितुं शक्नोति। अतः कवकजैवविविधता भविष्यत्कालीनवैज्ञानिकनवाचारस्य कृते मूल्यवान् संसाधनरूपेण प्रतिष्ठते।