परिवर्तनीयभ्रमणे सिनेमामध्ये उद्घाट्य अवदत् हेमा मालिनी
बालीवुडस्य वरिष्ठा अभिनेत्री तथा ड्रीम गर्ल इति नाम्ना विख्याता हेमामालिनी चलच्चित्रेभ्यः दूरत्वस्य कारणं प्रकाशितवती। सा अवदत् यत् भारतीयचलच्चित्रजगतः सः कालः यस्मिन् सा कार्यमकरोत् सः अत्यन्तं विशिष्टः आसीत्। अधुना चलच्चित्रनिर्माणस्य शैली अत्यन्
हेमा मालिनी - फोटो सोर्स एक्स


बालीवुडस्य वरिष्ठा अभिनेत्री तथा ड्रीम गर्ल इति नाम्ना विख्याता हेमामालिनी चलच्चित्रेभ्यः दूरत्वस्य कारणं प्रकाशितवती। सा अवदत् यत् भारतीयचलच्चित्रजगतः सः कालः यस्मिन् सा कार्यमकरोत् सः अत्यन्तं विशिष्टः आसीत्। अधुना चलच्चित्रनिर्माणस्य शैली अत्यन्तं परिवर्तिता अस्ति तथा नूतनयुगस्य चलच्चित्रैः सह सामञ्जस्यं स्थापयितुं तस्याः कृते सहजं नास्ति। अस्यैव कारणात् सा चलच्चित्रेभ्यः दूरत्वम् अङ्गीकृतवती।

एकस्मिन् संवादे हेमामालिनी अवदत् यत् सा स्वां भाग्यवतीं मन्यते यत् तस्यै भारतीयचलच्चित्रजगतः स्वर्णिमयुगस्य भागिनी भवितुं अवसरः प्राप्तः। सा अवदत्, सः चलच्चित्रोद्योगस्य स्वर्णिमः कालः आसीत्। तस्मिन् काले महिलाकेन्द्रिताः अनेकानि उत्कृष्टानि चलच्चित्राणि निर्मीयन्ते स्म। मम सीता और गीता, सपनों का सौदागर, खुशबू इत्यादिषु स्मरणीयेषु चलच्चित्रेषु अभिनयस्य अवसरः प्राप्तः। एतानि चलच्चित्राणि अद्यापि प्रेक्षकाणां मध्ये लोकप्रियाणि सन्ति।

हेमा अवदत् यत् स्वस्य दीर्घे अभिनयजीवने सा प्रायः द्विशताधिकेषु चलच्चित्रेषु अभिनयम् अकरोत् तथा अनेकैः निर्मातृभिः निर्देशकैः च पुनः पुनः सह कार्यं कर्तुं अवसरः प्राप्तः। सा अवदत् यत् तस्मिन् काले चलच्चित्रेषु पञ्च षट् वा गीतानि भवन्ति स्म तथा सङ्गीतं कस्यापि चलच्चित्रस्य सफलतायाः प्रमुखः आधारः मन्यते स्म। किन्तु अधुना चलच्चित्राणां शैली, प्रस्तुतीकरणम् तथा निर्माणपद्धतिः सम्पूर्णतया परिवर्तिता अस्ति। सा स्वीकृतवती यत् वर्तमानयुगस्य चलच्चित्रजगति स्वं समनुकूलयितुं तस्याः कृते सुलभं नास्ति।

स्वस्य सफलतायाः सम्पूर्णं श्रेयः हेमामालिनी स्वमात्रे अददात्। सा अवदत् यत् तस्याः माता प्रत्येकस्मिन् पदे तस्याः मार्गदर्शनम् अकरोत् तथा सम्यक् निर्णयग्रहणे सर्वदा तस्याः साहाय्यम् अकरोत्। नृत्यप्रशिक्षणात् आरभ्य चलच्चित्रेषु व्यवसायनिर्माणपर्यन्तं मातुः सहयोगः विश्वासः च तस्याः महान् बलम् आसीत्। अभिनेत्री अवदत् यत् स्वस्य जीवनस्य व्यवसायस्य च निर्माणे तस्याः मातुः भूमिका सर्वाधिकमहत्त्वपूर्णा आसीत्।

Hindusthan Samachar / Dheeraj Maithani