ऋग्वेदस्य ब्रह्मवादिनी-परम्परां संरक्षन्त्यः बक्सरस्य तिस्रः भगिन्यः, देहलीनगरे देववाण्याः संस्कृतस्य साधनायां निरताः
बक्सरनगरम्, ११ जुलाईमासः (हि.स.)। “यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः” इति भारतीय-संस्कृतेः उद्घोषः केवलं शास्त्रेषु एव सीमितः नास्ति, अपितु अद्यापि स्वजीवन्ततायाः प्रमाणं ददाति। महर्षेः विश्वामित्रस्य, वेदानां ऋषि-परम्परायाश्च पुण्यभूमेः
घर की तीनों ओजस्वी बेटियां


बक्सरनगरम्, ११ जुलाईमासः (हि.स.)। “यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः” इति भारतीय-संस्कृतेः उद्घोषः केवलं शास्त्रेषु एव सीमितः नास्ति, अपितु अद्यापि स्वजीवन्ततायाः प्रमाणं ददाति। महर्षेः विश्वामित्रस्य, वेदानां ऋषि-परम्परायाश्च पुण्यभूमेः बक्सरात् निर्गताः तिस्रः सहोदर-भगिन्यः अद्य इन्द्रप्रस्थे देववाण्याः संस्कृतस्य गम्भीरम् अध्ययनं कुर्वन्त्यः ऋग्वेदस्य ब्रह्मवादिनी-परम्परां नवयुगे अग्रे नेतुं संकल्पिताः सन्ति।

ऋग्वेदे घोषा, लोपामुद्रा, अपाला, विश्ववारा, गार्गी तथा मैत्रेयी इत्यादयः विदुष्यः स्वज्ञानेन, तपसा वैदिक-चिन्तनेन च भारतीय-ज्ञान-परम्परां समृद्धवत्यः। अद्य तस्याः एव परम्परायाः प्रेरणादायिनी झलक बक्सरस्य एतासु प्रतिभाशालिनीषु भगिनीषु दृश्यते। ताः संस्कृतं केवलं भाषा न मन्यमानाः, अपितु भारतीय-संस्कृतेः, दर्शनस्य तथा ज्ञान-विज्ञानस्य आत्मरूपेण स्वीकृत्य अध्ययनं कुर्वन्ति।

ज्ञायते यत् नगरस्य सिविल-लाइन्स-क्षेत्र-निवासिनः अधिवक्ता विनोद-उपाध्यायस्य ज्येष्ठा पुत्री सौम्या-उपाध्यायः देहली-विश्वविद्यालयस्य प्रसिद्धे मिराण्डा-हाउस-महाविद्यालये संस्कृत-विषये स्नातक-पाठ्यक्रमस्य छात्रा अस्ति। सा बक्सरस्य सरस्वती-विद्या-मन्दिरात् दशम-कक्षायाः परीक्षां ९३ प्रतिशताङ्कैः उत्तीर्णवती। विद्यालयात् आरभ्य विश्वविद्यालय-पर्यन्तं संस्कृत-वाद-विवाद-, शास्त्रार्थ- तथा भाषण-प्रतियोगितासु स्वप्रतिभां प्रदर्शितवती। उत्कृष्ट-प्रदर्शनस्य आधारेण तस्यै देहली-विश्वविद्यालयस्य छात्रवृत्तिरपि प्राप्ता।

द्वितीया पुत्री तनया-उपाध्यायः देहली-विश्वविद्यालयस्य इन्द्रप्रस्थ-महाविद्यालये संस्कृत-विषये स्नातक-छात्रा अस्ति। सा अपि सरस्वती-विद्या-मन्दिरात् दशम-कक्षायाः परीक्षां ९४ प्रतिशताङ्कैः उत्तीर्णवती। तस्याः स्वप्नम् अस्ति यत् सा ऋषिकानां घोषा-लोपामुद्रा-अपाला-दार्शनिक-विदुष्योः गार्गी-मैत्रेयी-परम्परायां भारतीय-ज्ञान-संस्कृतेः संवाहिका भवेत्।

कनिष्ठा भगिनी अपूर्वा-उपाध्यायः देहली-विश्वविद्यालयस्य लक्ष्मीबाई-महाविद्यालये समाज-विज्ञान-विषये छात्रा अस्ति। यद्यपि तस्याः विषयः संस्कृतं नास्ति, तथापि भारतीय-संस्कृतेः तथा ज्ञान-परम्परायाः विषये तस्याः प्रगाढा रुचिः तां स्वभगिन्योः सदृशीम् अध्ययनशीलां करोति।

एताः तिस्रः भगिन्यः बक्सर-जनपदस्य डुमराँव-अनुमण्डलस्थितस्य एकौनी-ग्रामस्य स्वर्गीय-अधिवक्ता सिद्धेश्वर-उपाध्यायस्य पौत्र्यः सन्ति। लघु-नगरात् निर्गत्य देशस्य शीर्ष-विश्वविद्यालये तिसृणां सहोदर-भगिनीनां अध्ययनरतत्वम् एव प्रेरणादायिनी उपलब्धिः अस्ति।

पिता विनोद-उपाध्यायः वदति यत् पुत्रीणां अध्ययन-समर्पणं ज्ञान-पिपासा च दृष्ट्वा सः स्वयं नतमस्तकः भवति। आर्थिक-समस्या: सन्त्यपि तेन पुत्रीणां शिक्षायां कदापि न्यूनता न कृता। तस्य मतम् अस्ति— “धनात् अपि महती उत्तराधिकारी शिक्षा एव।”

माता रेखा-देवी, या राजपुर-प्रखण्डस्य जारीग्रामस्य निवासिनी अस्ति, सा अपि पुत्रीणां संस्कार-अनुशासन-अध्ययनशीलतायाः दृढाम् आधारशिलां स्थापितवती। विनोद-उपाध्यायः कथयति यत् पुत्रीणां संस्कृताभिमुखीकरणे तासां मातुलानां गोविन्दजी-दुबे, गोपालकृष्ण-दुबे तथा सत्यम-दुबे इत्येषां महत्त्वपूर्णं योगदानं वर्तते। ते सर्वे संस्कृत-विद्वांसः सन्ति तथा समये समये पुत्रीणां मार्गदर्शनम् अकुर्वन्।

परिवारस्य स्पष्टः संकल्पः अस्ति यत् एताः तिस्रः पुत्र्यः भविष्ये संस्कृते उच्च-अनुसन्धानम्, अध्यापनम् तथा भारतीय-ज्ञान-परम्परायाः पुनर्जागरणे योगदानं दास्यन्ति। अस्मिन् काले, यदा देववाण्याः संस्कृतस्य गम्भीरम् अध्ययनं कुर्वतां यूनां संख्या निरन्तरं न्यूना भवति, तदा बक्सरस्य एताः तिस्रः पुत्र्यः आशायाः नूतना किरणरूपेण उदिताः सन्ति।

वस्तुतः एषा कथा केवलं तिसृणां पुत्रीणां सफलतायाः कथा नास्ति, अपितु तस्याः सनातन-परम्परायाः पुनर्जागरणम् अस्ति, या वेदानां स्वरान्, उपनिषदां चिन्तनं तथा भारतीय-दर्शनस्य आलोकं समग्रं विश्वं प्रति प्रसारितवती। महर्षेः विश्वामित्रस्य भूमिः बक्सरस्य एताः पुत्र्यः सिद्धयन्ति यत् यदि संकल्पः, संस्कारः तथा साधना एकत्र स्युः, तर्हि ऋग्वेदस्य ब्रह्मवादिनी-परम्परा अद्यापि सजीवा वर्तते।

Hindusthan Samachar / Divya Ranjan