Enter your Email Address to subscribe to our newsletters


– आधुनिक-प्रशिक्षणेन, अभिनव-अभिकल्पनया तथा विपण्या सह संयोजनेन आजीविका-रोजगारयोः संवर्धनं भविष्यति
रायपुरनगरम्, १२ जुलाईमासः (हि.स.)। मुख्यमन्त्रिणः विष्णुदेव-साय-महोदयस्य नेतृत्वे छत्तीसगढ़-सर्वकारः ग्रामीण-आजीविकायाः, महिला-सशक्तीकरणस्य तथा पारम्परिक-हस्तशिल्पस्य प्रोत्साहनार्थं निरन्तरं प्रयतते। अस्याः श्रृङ्खलायाः अन्तर्गतं जशपुर-जनपदे जनपद-प्रशासनं ‘जशक्राफ्ट’ इति माध्यमेन वंश-हस्तशिल्पाय नूतनं परिचयं दातुं, स्थानीय-शिल्पिनः आधुनिक-प्रौद्योगिक्या सह संयोजयितुं तथा तेषाम् आयवृद्धिं कर्तुं विशेषप्रयत्नम् आरब्धवान्।
जशपुर-विकासखण्डस्य झोलाङ्गा-ग्रामपञ्चायते २९ जूनमासतः २९ जुलाईमासपर्यन्तम् एकमासात्मकं आवासीयं वंश-हस्तशिल्प-प्रशिक्षणम् आयोज्यते। जनपद-पञ्चायते राष्ट्रिय-ग्रामीण-आजीविका-अभियानस्य च संयुक्त-प्रयासेन सञ्चाल्यमानस्य अस्य प्रशिक्षणस्य उद्देश्यं वंश-हस्तशिल्पेन सम्बद्धानां प्रायः १५० परिवाराणाम् आजीविकां सशक्तीकर्तुम् अस्ति। सम्प्रति ४६ महिलानां प्रथमः समूहः प्रशिक्षणं प्राप्नोति।
प्रशिक्षणकाले सहभागिभ्यः आधुनिक-यन्त्राणां उपयोगः, नूतन-अभिकल्पनाः तथा वर्तमान-विपण्याः अपेक्षानुसारं उच्चगुणवत्तायुक्तानां वंश-उत्पादानां निर्माणस्य व्यावहारिक-प्रशिक्षणं दीयते। एतदर्थं गुजरात-राज्यस्य सूरत-नगरात् विशेषज्ञ-प्रशिक्षकाः आमन्त्रिताः सन्ति। प्रशिक्षणे शोभन-थालिकाः, पुष्पपात्राणि, माचिका, अलङ्कार-सामग्री, चटिकाः, आकर्षक-पेटिकाः, उपवेशनानि, शय्या इत्यादीनां आधुनिक-उपयोगी-उत्पादानां निर्माणं शिक्ष्यते।
जशपुर-मनोरा-विकासखण्डयोः प्रायः २५० परिवाराः बहुवर्षेभ्यः वंश-हस्तशिल्पस्य माध्यमेन स्वामाजीविकां निर्वहन्ति। तेषु बहुसंख्यकाः ‘बिहान’ स्वसहायता-समूहानां महिलाः अपि सक्रियतया कार्यं कुर्वन्ति। एते समूहाः चक्रीय-निधिना, सामुदायिक-निवेश-निधिना, धनागार-संयोजनेन तथा मुद्रा-ऋणेन इत्यादिभिः वित्तीय-सुविधाभिः सम्बद्धाः क्रियन्ते, येन तेषाम् उद्यमाः सुदृढाः भवन्ति। तदतिरिक्तं समये समये कौशल-वर्धनस्य उद्यमिता-विकासस्य च प्रशिक्षणमपि प्रदीयते।
‘जशक्राफ्ट’ इति संस्थाया: अन्तर्गतं निर्मितानि हस्तशिल्प-उत्पादानि ग्राम्यांचलेषु, राज्यीय-राष्ट्रीय-प्रदर्शिनीषु तथा देशस्य विविध-विपणीषु प्रापयितुं अभिकल्पन-विपणन-विशेषज्ञानां सेवाः उपयुज्यन्ते, येन स्थानीय-शिल्पिनः स्वोत्पादानां समुचितं मूल्यं प्राप्नुयुः स्थिर-विपणीं च लभेरन्।
राज्य-सर्वकारस्य एष: प्रयत्न: पारम्परिक-वंश-शिल्पं आधुनिक-विपण्या सह संयोजयन्ती, महिला-सशक्तीकरणं, स्थानीय-रोजगार-सृजनम्, जनजातीय-परिवाराणाम् आयवृद्धिं तथा आत्मनिर्भर-ग्रामीण-अर्थव्यवस्थायाः सुदृढीकरणं च प्रोत्साहयन्ती महत्त्वपूर्णा सिद्धा भवति। जनपद-प्रशासनस्य लक्ष्यं आगामि-वर्षपर्यन्तं हस्तशिल्पेन सम्बद्धानां सर्वेषां स्वसहायता-समूह-सदस्यान् ‘लखपति-दीदी’ इति श्रेण्यां समावेशयितुम् अस्ति।
Hindusthan Samachar / Divya Ranjan