Enter your Email Address to subscribe to our newsletters

– हृदयनारायण-दीक्षितः
विश्वस्य सर्वाधिक-मुस्लिम-जन-सङ्ख्यायुक्तः देशः इण्डोनेशिया अस्ति। सः भारतेन सह स्वकीयान् पारिवारिक-सम्बन्धान् उद्घोषितवान्। इण्डोनेशिया-देशस्य राष्ट्रपतिः प्रबोवो सुबियान्तो भारत-इण्डोनेशिययोः सम्बन्धानां मनोहरं वर्णनं कृतवान्। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी इण्डोनेशियादेशस्य यात्रायां प्राप्ते सति राष्ट्रपतिः सुबियान्तो स्वयमेव अग्रे गत्वा तस्य हार्दिकं स्वागतं कृत्वा प्रशंसामपि अकरोत्।
भारतीयसंस्कृतिः सहस्रवर्षप्राचीना अस्ति। अस्याः संस्कृतेः सभ्यतायाश्च मूलानि भारतभूमौ अतिगभीराणि सन्ति। व्यापारादिकारणैः विदेशेषु निवसन्तोऽपि भारतीयाः स्वसंस्कृतिं सभ्यतां च प्रति गौरवमनुभवन्ति। अष्टाविंशतिकोटि-जनसङ्ख्यायुक्तः इण्डोनेशियादेशः भारतीयसंस्कृत्या समृद्धः अस्ति। तत्र प्रायः दशसहस्रं देवालया: उपासनास्थलानि च सन्ति। श्रीरामस्य प्रभावः तत्र सर्वत्र दृश्यते। देशस्य सर्वेषु भागेषु रामकथायाः आयोजनं निरन्तरं भवति।
भारतस्य इण्डोनेशियादेशस्य च सम्बन्धाः अत्यन्तं प्राचीनाः सन्ति। इण्डोनेशिया-वासिनः स्वहृदये भारतमनुभवन्ति। तस्य देशस्य विमानसेवायाः नाम 'गरुड-एयरवेज्' इति प्रसिद्धम्। भारते यथा उपजनपदाधिकारी प्रशासकाः भवन्ति तथा इण्डोनेशियायां तान् 'महिपाल:' इति कथयन्ति। तत्र विजयादशमी, होली इत्यादीनां भारतीयपर्वणाम् उल्लासेन आयोजनं भवति। रामलीलायां नटानां बहवः इस्लामधर्मानुयायिनः भवन्ति। ते मन्यन्ते—“वयं धर्मतः इस्लामधर्मावलम्बिनः स्मः, किन्तु संस्कृत्या भारतीयाः स्मः।” एषा एव संस्कृतिः भारत-इण्डोनेशियादेशयोः एकात्मभावं निर्माति।
प्रधानमन्त्रिणः अस्य प्रवासस्य अवसरः केवलं राजकीयातिथ्यस्य नासीत्, अपितु भावात्मकसम्बन्धस्य अपि आसीत्। राष्ट्रपतिः सुबियान्तो भावविह्वलः उक्तवान् यत् स्वस्य डीएनए-परीक्षणं कारितवान्, तेन ज्ञातं यत् तस्य डीएनए भारतीय-मूलसम्बद्धम् अस्ति। अतः भारतीयसङ्गीतं श्रुत्वा स्वशरीरं स्वयमेव नृत्यति इव अनुभूयते। एषा भावना युक्तिसङ्गता एव। स्वमूलैः सह पुनः सम्बन्धः सर्वेषां हर्षकारणं भवति। भारतस्य इण्डोनेशियादेशस्य च संस्कृत्योः मूलानि समानानि सन्ति। एतानि मूलानि सततं पोषयितुं सर्वेषां दायित्वम् अस्ति। यथा शुष्कमूलयुक्ते वृक्षे न पुष्पाणि भवन्ति, न च तत्र पक्षिणः मधुरं गायन्ति।
यदि पाकिस्तानदेशस्य उदाहरणं स्वीक्रियते, तर्हि तस्यापि भारतीयसंस्कृत्या सह समानं मूलम् आसीत्। एषा सभ्यता सिन्धु-सरस्वत्योः तटे विकसिताभूत्। किन्तु पाकिस्तानदेश: स्वमूलसंस्कृतेः पृथक्कृतः अभवत्। जिन्ना-मुस्लिम-लीग-इत्यनयोः धर्माधारित-राष्ट्र-निर्माणस्य विचारः राष्ट्रियहानिकरः अभवत्। तत्र कट्टरपन्थस्य प्रभावेन देशः आतङ्कवादस्य केन्द्ररूपेण परिवर्तितः। ते स्वसंस्कृतेः सत्यं नाङ्गीकुर्वन्ति। एषा संस्कृतिः सहस्रवर्षीयसाहचर्येण पूर्वजानां अनुभवेन प्रेम्णा च निर्मिता। दर्शनं विज्ञानं च अस्याः नेतृत्वं कृतवन्तौ।
भारते सहस्रवर्षपर्यन्तं सांस्कृतिक-निरन्तरता दृश्यते। ऋग्वेदे समग्र-मानवजातिं प्रति प्रेमभावस्य प्रतिबिम्बं दृश्यते। उत्तरवैदिककालेऽपि सा एव सांस्कृतिकपरम्परा प्रवहति। राष्ट्रपतिः सुबियान्तो उक्तवान्—“अस्माकं सभ्यतायाः संस्कृतेश्च उपरि भारतीयसभ्यतायाः गहनः प्रभावः अस्ति।” सः अपि अवदत्—“अस्माकं भाषायाः प्रायः पञ्चाशत्प्रतिशतं संस्कृतभाषातः आगतम्। अस्माकं बहूनि नामानि संस्कृतमूलानि सन्ति। अतः अस्माकं मध्ये स्वाभाविकी निकटता विद्यते।”
संस्कृतेः निर्माणं दीर्घकालेन भवति। प्रकृतिः प्रतिक्षणं नूतनं सृजति। मनुष्याः प्रकृतेः सत्यं शिवं सुन्दरं च आत्मसात्कुर्वन्तः संस्कृतिं निर्मिमते। भारतीयसंस्कृतेः प्रभावः केवलं भौगोलिकसीमासु नासीत्। सा आर्याणप्रदेशे (अद्यतन-ईरानदेशे), गान्धारे (अद्यतन-अफगानिस्तानदेशे), खोताने, नेपाले, भूटाने, श्रीलङ्कायां, म्यान्मारदेशे, श्यामदेशे (थाइलैण्डे), कम्बोडियादेशे, चम्पादेशे, मलेशियादेशे च व्याप्ता आसीत्।
इण्डोनेशिया विश्वस्य महान् मुस्लिमदेशः अस्ति, किन्तु सः पूर्वं हिन्दुसांस्कृतिकप्रदेशः आसीत्। अद्यापि तत्र प्राचीना सांस्कृतिकपरम्परा जीवति। फिलिपीन्स्, तिब्बत, अरबप्रदेशः, जापान्, कोरिया, मङ्गोलिया, साइबेरिया, इङ्ग्लैण्ड्, आयरलैण्ड्, इटली, ग्रीस, मिस्रदेशः, ऑस्ट्रेलियादेशः, दक्षिण-आफ्रिका, फिजी, मॉरीशस्, गुयाना, सूरीनाम्, त्रिनिडाड् इत्यादिषु देशेषु अपि भारतीयसंस्कृतेः प्रभावः दृष्टिगोचरः अस्ति। यद्यपि संस्कृतयः विशिष्टभौगोलिकप्रदेशेषु विकसिताः भवन्ति, तथापि ताः दर्शन, विचारधारा, काव्यसाहित्यं, कलाश्च माध्यमीकृत्य विश्वे प्रसारं प्राप्नुवन्ति। अतः भारतीयसंस्कृतेः अध्ययनमपि एतादृशसाहित्यसामग्रीम् आश्रित्य करणीयम्।
ऋग्वेदः विश्वस्य प्राचीनतमं साहित्यं, काव्यं, समाजशास्त्रं, तत्कालीनसमाजसंस्कृतेः दर्पणश्च अस्ति। समग्रं वैदिकसाहित्यं लोकमङ्गलस्य कामनया पूर्णम् अस्ति। तत्र सामाजिकसङ्गठनस्य करणीय-अकरणीयविषयकाः सिद्धान्ताः अपि सन्ति। शरीरविज्ञानं, नक्षत्रविज्ञानं, जन्तुविज्ञानं, वनस्पतिशास्त्रं, भौतिकशास्त्रं, रसायनशास्त्रं, अणुविज्ञानस्य च विवेचनं तत्र उपलब्धम्। उपनिषदः सृष्टेः आदितत्त्वस्य अन्वेषणं कुर्वन्ति तथा सम्पूर्णमानवजातेः सत्यशोधकत्वं प्रतिपादयन्ति। पुराणानि लोकजीवनस्य संगठनं, प्राचीनज्ञानस्य उपयोगं, सत्यान्वेषणस्य निरन्तरतां च प्रेरयन्ति। रामायणं महाभारतं च महाकाव्ये इतिहासग्रन्थौ च स्तः। ते विविधानां परिस्थितीनां मध्ये स्वविवेकपूर्वकं जीवनयापनस्य प्रेरणां ददति।
प्रकृतिः प्रसादः, विकृतिः विषादः, संस्कृतिः तु महाप्रसादः। संस्कृतेः निर्माणम् आकस्मिकं न भवति। राष्ट्रस्य सर्वे घटकाः एकस्वरे, एकलये, एकप्रीत्यां, एकच्छन्दसि, एकरसे च स्पन्दमानाः स्वसंस्कृतिं निर्मिमते। संस्कृतिः राष्ट्रस्य दर्शनं, भाषा, धर्मः, कला, संवेदना, आशा, निराशा, प्रतीतिः, अनुभूतिः, धैर्यं, साहसं, संयमः, मर्यादा च इत्येषां समष्टिरूपा अन्तःप्रेरणा अस्ति। भारतस्य संस्कृतिः सहस्रवर्षीयतपःसाधनया निर्मिता। सर् जान् मार्शलः अपि उक्तवान्—“अनेकैः प्रमाणैः भारते अत्यन्तविकसितायाः संस्कृतेः अस्तित्वं ज्ञायते। अस्य पृष्ठे भारतभूमेः दीर्घः इतिहासः अवश्यम् अस्ति।” अतः भारतीयसंस्कृतिः दीर्घकालीनतर्कस्य, अनुभवस्य, दर्शनस्य च उत्कृष्टं फलम् अस्ति।
(लेखकः उत्तरप्रदेशविधानसभायाः पूर्वाध्यक्षः अस्ति।)
Hindusthan Samachar / Divya Ranjan