Enter your Email Address to subscribe to our newsletters

अयोध्यानगरम्, १२ जुलाईमासः (हि.स.)। मुख्यमन्त्रिणः योगी-आदित्यनाथस्य आह्वानेन ‘एकः वृक्षः मातुः नाम्ना’ इति वृक्षारोपण-महायज्ञ-२०२६ अन्तर्गतं अयोध्या-जनपदेन नवीनं कीर्तिमानं स्थापितम्। सम्पूर्णे जनपदे रविवासरे जनसहभागितया सञ्चालिते महाभियाने निर्धारित-लक्ष्यात् अधिकाः पादपाः रोपिताः तथा हरित-विकासस्य आदर्शः प्रस्तुतः। जनपदाय ४४ लक्ष ०२ सहस्र पादपरोपणस्य लक्ष्यं निर्धारितम् आसीत्, तस्य स्थाने ४४ लक्षं ३१ सहस्रं ४८३ पादपाः रोपिताः, एवं लक्ष्यं सफलतया अतिक्रान्तम्। आवंटितलक्ष्यानुसारं वनविभागाय २० लक्ष ५० सहस्र तथा अन्यविभागेभ्यः २३ लक्षं ५२ सहस्रं पादपानां रोपणस्य दायित्वं प्रदत्तम् आसीत्। अभियानकाले वनविभागेन स्वलक्ष्या-नुसारं २० लक्षं ५० सहस्रं पादपाः रोपिताः, अन्यविभागैश्च लक्ष्यादधिकाः २३ लक्षं ८१ सहस्रं ४८३ पादपाः रोपिताः। प्रातः षड्वादनतः आरब्धम् एतदभियानं सायं पञ्चवादनपर्यन्तं उत्साहेन जनसह-भागितया च सञ्चालितम्।
कृषिविज्ञानकेन्द्रे मन्त्रिणा अभियानस्य शुभारम्भः कृतः
डाभासेमर-स्थिते कृषिविज्ञानकेन्द्रे उत्तरप्रदेशसर्वकारस्य आबकारी-मद्यनिषेध-राज्यमन्त्री (स्वतन्त्रप्रभारः) नितिन-अग्रवालः अशोकवृक्षस्य रोपणेन अभियानस्य शुभारम्भम् अकरोत् तथा जनान् ‘एकः वृक्षः मातुः नाम्ना’ इति सङ्कल्पेन वृक्षारोपणाय प्रेरितवान्। अस्मिन्नवसरे अयोध्या-विधायकः वेदप्रकाश-गुप्तः अपि अशोकवृक्षं रोपितवान्। वनसंरक्षकः क्षेत्रीयनिदेशकः (सामाजिकवानिकी) समीरकुमारः, प्रभागीय-वनाधिकारी प्रखर-गुप्तः निम्बवृक्षं तथा मुख्यविकासाधिकारी कृष्णकुमारसिंहः महोगनी-वृक्षं रोपयित्वा पर्यावरणसंरक्षणस्य सन्देशम् अददात्। कार्यक्रमे बहुसंख्यकाः जनप्रतिनिधयः, अधिकारिणः, स्थानीयनागरिकाश्च उपस्थिताः आसन्।
प्रमुखसचिवेन आदिवसं निरीक्षणं कृतम्
वृक्षारोपण-अभियानस्य नोडल-अधिकारी उत्तरप्रदेशशासनस्य प्रमुखसचिवः अमित-गुप्तः प्रातः अष्टवादने अयोध्यां प्राप्य विविधेषु वृक्षारोपणस्थलेषु निरीक्षणं कृत्वा स्वयमपि पादपान् रोपितवान्। तेन मया-खण्डस्य कुशहरी-ग्रामे मियावाकी-पद्धत्या विकसिते क्षेत्रे पादपाः रोपिताः। ततः कन्दई-खण्डस्य मीसा-स्थिते गोशालायां निम्ब-पीपल-वट-आम्रवृक्षाश्च रोपिताः। अनन्तरं सोहावल-खण्डस्य आयुष्मान्-आरोग्य-मन्दिरे, हाजीपुर-बरसेड़ी-ग्रामे आमलकवृक्षं तथा रानाहा-ग्रामपञ्चायत्यां अशोकवृक्षं रोपितवान्। रामपथे पेल्टोफोरम्-वृक्षस्य रोपणेन पर्यावरण-संरक्षणस्य सन्देशोऽपि प्रदत्तः। अस्मिन्नवसरे प्रभागीय-वनाधिकारी प्रखर-गुप्तः तथा क्षेत्रीय-वनाधिकारी रामेन्द्रकुमार-त्रिगुणायतः स्वदलसमेतौ उपस्थितौ आस्ताम्।
रामपुर-हलवारायां पूर्वरोपित-पादपानामपि निरीक्षणम्
प्रमुखसचिवः अमित-गुप्तः रामपुर-हलवारा-क्षेत्रे पूर्ववर्षेषु रोपितानां पादपानाम् निरीक्षणं कृत्वा तत्रापि वृक्षारोपणम् अकरोत्। अस्मिन्नवसरे क्षेत्रीय-वनाधिकारी अरुणकुमार-मौर्यः स्वदलसमेतः उपस्थितः आसीत्। ततः सः सोहावल-खण्डस्य अमीना-संयुक्त-विद्यालये तथा मिल्कीपुर-खण्डस्य अग्रया-स्थिते मियावाकी-वृक्षारोपण-क्षेत्रेऽपि पादपान् रोपितवान्।
जनप्रतिनिधिभिरपि अभियाने उत्साहः वर्धितः
रामपुर-हलवारा-ग्रामसमाजस्य वृक्षारोपण-क्षेत्रे गोसाईंगञ्ज-विधायकः अभयसिंहः वृक्षारोपणम् अकरोत्। रुदौली-क्षेत्रे विधायकः रामचन्द्रयादवः अश्वत्थवृक्षं रोपितवान्। अस्मिन्नवसरे क्षेत्रीय-वनाधिकारी जयप्रकाश-गुप्तः स्वदलेन सह उपस्थितः आसीत्।
कुमारगञ्ज-कृषिविश्वविद्यालयेऽपि विशेषकार्यक्रमः आयोजितः
आचार्य-नरेन्द्रदेव-कृषि-प्रौद्योगिकी-विश्वविद्यालये कुमारगञ्जे आयोजिते कार्यक्रमे प्रदेशस्य कृषिमन्त्री सूर्यप्रताप-शाही पीपलवृक्षं रोपितवान्। विश्वविद्यालयस्य कुलपतिः ज्ञानेन्द्र-प्रतापसिंहः पाकडवृक्षं, जनपद-पञ्चायत-अध्यक्षा रोलीसिंहः कोविदारवृक्षं, विधायकः रामचन्द्रयादवः मौलश्रीवृक्षं तथा मिल्कीपुर-विधायकः चन्द्रभानुपासवानः कोविदारवृक्षं रोपितवान्। प्रभागीय-वनाधिकारी प्रखर-गुप्तः मौलश्रीवृक्षं तथा मुख्यविकासाधिकारी कृष्णकुमारसिंहः कोविदारवृक्षं रोपयित्वा अभियाने सहभागित्वम् अकरोत्। कार्यक्रमे क्षेत्रीय-वनाधिकारी प्रमोदकुमार-श्रीवास्तवः, विश्वविद्यालय-प्रशासनस्य सदस्याः, जनप्रतिनिधयः तथा बहुसंख्यकाः स्थानीयजनाः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan