Enter your Email Address to subscribe to our newsletters

कानपुरनगरम्, १२ जुलाईमासः (हि.स.)। दिव्याङ्गजनानां समस्याः शीघ्रतया प्रभावीरीत्या च समाधातुं सम्बद्धविभागैः सह समन्वयः स्थापयिष्यते। कस्यापि दिव्याङ्गस्य स्वसमस्यायाः समाधानार्थं इतस्ततः भ्रमणं न करणीयम्, इत्यर्थं राष्ट्रिय-दिव्याङ्ग-पक्षः निरन्तरं प्रयत्नशीलः अस्ति। एतानि वचनानि राष्ट्रिय-दिव्याङ्ग-पक्षस्य राष्ट्रीयाध्यक्षः वीरेन्द्रकुमारः रविवासरे समस्या-समाधान-शिविरस्य अवसरं सम्बोधयन् उक्तवान्।
राष्ट्रिय-दिव्याङ्ग-पक्षस्य पक्षतः शास्त्री-नगर-स्थिते उद्याने दिव्याङ्गजनानां समस्यासमाधानार्थं शिविरम् आयोजितम्। अस्मिन् शिविरे नगरात् तथा दूरवर्तिक्षेत्रेभ्यः आगताः दिव्याङ्गजनाः स्वस्वसमस्याः निवेदितवन्तः। तासु दिव्याङ्ग-उत्पीडनम्, दिव्याङ्ग-पेन्शन, स्वरोजगारार्थं ऋणम्, आवासः, आयप्रमाणपत्रम् तथा रेलयानस्य यूनिक-पत्रकस्य अभावः इत्यादयः विषयाः प्रमुखतया अन्तर्भूताः आसन्।
शिविरकाले बहुषु प्रकरणेषु तत्क्षणमेव सम्बद्धाधिकारिभिः सह सम्पर्कः स्थापयित्वा कार्यवाहीं कर्तुं प्रयासः कृतः। नेत्रहीनः मोहम्मद् आमिर-घोसी स्वपार्श्ववासिभिः उत्पीडनस्य सूचनां कृतवान्। ततः तं सम्बद्ध-आरक्षि-स्थानकं सम्प्रेष्य आवश्यककार्यवाही कारिता।
राष्ट्रीयाध्यक्षः वीरेन्द्रकुमारः अवदत् यत् शिविरे प्राप्ताः सर्वाः सूचना: सम्बद्ध-विभागानां पुरतः प्रस्तूय शीघ्र-निस्तारणस्य प्रयासः करिष्यते। तेन उक्तं यत् यदि कस्यापि दिव्याङ्गस्य काचिद् समस्या भवेत्, तर्हि सः राष्ट्रिय-दिव्याङ्ग-पक्षेण सह सम्पर्कं कृत्वा स्वसूचनां पञ्जीकर्तुं शक्नोति, येन तस्याः समाधानार्थम् आवश्यकप्रयत्न: क्रियेत।
शिविरे राहुलकुमारः, अल्पनाकुमारी, अरविन्दसिंहः, गुड्डी-दीक्षितः, वैभव-दीक्षितः, गोमती-वर्मा, गौरवकुमारः, रञ्जीतकुमारः, रामजानकी, ओमप्रकाशदासः तथा पक्षस्य अन्ये पदाधिकारीण: कार्यकर्तारश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan