Enter your Email Address to subscribe to our newsletters

नवदेहली, १२ जुलाईमासः (हि.स.)। केन्द्रीय-वाणिज्य-उद्योगमन्त्री पीयूष-गोयलः रविवासरे अवदत् यत् भारत-ब्रिटेन-मुक्तव्यापार-सन्धय: प्रवर्तमाने सति १५ जुलाईमासतः भारतात् ब्रिटेनदेशं सम्प्रेष्यमाणेषु सर्वेषु निर्यात-वस्तुषु आयात-शुल्कं न भविष्यति। अनेन कृषकाः, मत्स्यजीविनः, सूक्ष्म-लघु-मध्यम-उद्यमाः तथा स्वदेशीय-उद्योगाश्च लाभान्विताः भविष्यन्ति।
अत्र आयोजितस्य कार्यक्रमस्य पार्श्वे संवाददातृभिः सह वार्तालापे गोयलः अवदत् यत् एषः व्यापार-सन्धि: केवलं वस्तूनां सेवायाश्च सीमितः नास्ति, अपितु ब्रिटेनदेशे कार्यरतानां सहस्रशः भारतीय-व्यावसायिकानामपि हितकरः भविष्यति। तेन उक्तम्—“भारत-ब्रिटेन-व्यापार-सन्ध्यनुसारं १५ जुलाईमासतः भारतात् ब्रिटेनदेशं निर्यातितेषु सर्वेषु वस्तुषु शून्यम् आयात-शुल्कं भविष्यति।”
केन्द्रीय-वाणिज्य-उद्योगमन्त्री एतस्य सन्धे: प्रवर्तनस्य घोषणां कुर्वन् अवदत् यत् अनेन निर्यातकाः, कृषकाः, मत्स्यजीविनः, एमएसएमई-उद्यमाः तथा व्यावसायिकाः लाभं प्राप्स्यन्ति। तेन सह भारत-ब्रिटेनदेशयोः व्यापारिक-आर्थिक-सम्बन्धाः अपि अधिकं सुदृढाः भविष्यन्ति।
तेन पुनरुक्तं यत् अस्मिन् सन्धौ ‘द्विगुण-अंशदान-अभिसमयः’ इति प्रावधानम् अपि अन्तर्भूतम् अस्ति। तदनुसारं ब्रिटेनदेशे पञ्चवर्षपर्यन्तं कार्यं कुर्वन्तः भारतीय-व्यावसायिकाः तत्रत्य-सामाजिक-सुरक्षा-व्यवस्थायै अंशदानं दातुं न बाध्याः भविष्यन्ति। गोयलः अवदत् यत् पूर्वं भारतीय-व्यावसायिकानां वेतनस्य प्रायः पञ्चविंशतिशतांशः ब्रिटेन-सर्वकारस्य सामाजिक-सुरक्षा-योजनायां प्रयुज्यते स्म। इदानीं सा एव राशि भारते तेषां भविष्य-निधि-लेखेषु निक्षेपिता भविष्यति, यस्य उपरि वार्षिकम् ८.२५ प्रतिशतं व्याजं भविष्यति। एषा राशि: करमुक्ता भविष्यति तथा निवृत्तेः अनन्तरं तेषां सञ्चयं सुरक्षितं करिष्यति।
गोयलः अवदत् यत् अनेन सन्धिना भारतीय-व्यावसायिकानां कृते नूतनाः अवसराः उद्भविष्यन्ति तथा भारत-ब्रिटेनदेशयोः व्यापारिक-आर्थिक-सम्बन्धाः अधिकं सुदृढाः भविष्यन्ति। वाणिज्यमन्त्रिणा अस्य सन्धे: श्रेयः प्रधानमन्त्रिणः नरेन्द्र-मोदिनः नेतृत्वाय प्रदत्तम्। तेन उक्तं यत् सः १४ तथा १५ जुलाईमासयोः ब्रसेल्स-नगरे आयोज्य-मानायां भारत-यूरोपीय-सङ्घ-व्यापार-प्रौद्योगिकी-परिषदः सभायां सहभागं करिष्यति। तत्र लम्बित-विषयाणां समाधानं तथा प्रौद्योगिकी-सहकार्यस्य संवर्धनम् इति विषये चर्चा भविष्यति।
अस्मात् पूर्वं केन्द्रीय-वाणिज्य-उद्योगमन्त्री सामाजिक-माध्यमे ‘एक्स’ इत्यत्र प्रकाशिते सन्देशे अवदत् यत् सः बोरीवली-क्षेत्रे बण्ट्स-सङ्घस्य शशिकिरण-शेट्टी-शैक्षणिक-संस्थानानाम् उद्घाटन-समारोहे तथा दाता-सम्मान-कार्यक्रमे सहभागित्वं कृतवान्। तेन शिक्षायाः उन्नयनस्य तथा गुणवत्तापूर्ण-शिक्षया आवश्यकताग्रस्त-छात्राणां सशक्तीकरणे बण्ट्स-समुदायस्य अमूल्य-योगदानस्य प्रशंसा कृता। शशिकिरण-शेट्टी-महोदयाय उदार-सहयोगाय विशेष-आभारः व्यक्तः। संस्थानस्य प्रबन्धन-मण्डलाय, अध्यापकवर्गाय, छात्रेभ्यश्च शुभकामनाः प्रदत्ताः तथा उत्तर-मुम्बई-क्षेत्रे शिक्षाक्षेत्रस्य सुदृढीकरणे संस्थानस्य महत्त्वपूर्णं योगदानं भविष्यतीति विश्वासः अपि व्यक्त:।
उल्लेखनीयम् अस्ति यत् भारत-ब्रिटेन-मुक्तव्यापार-सन्धि: १५ जुलाईमासतः प्रवर्तिष्यते। अनेन भारतात् निर्यातिताः सर्वाणि वस्तूनि ब्रिटिश-विपण्यां शुल्करहित-प्रवेशं प्राप्स्यन्ति तथा ब्रिटेनदेशे कार्यरताः भारतीय-व्यावसायिकाः सामाजिक-सुरक्षासम्बद्धेषु प्रावधानेषु विशेष-शिथिलतां प्राप्स्यन्ति।
Hindusthan Samachar / Divya Ranjan