ब्रह्माकुमारी-विश्वविद्यालयेन नशामुक्ति-प्रतिज्ञा-अभियानस्य शुभारम्भः कृतः
राञ्चीनगरम्, १२ जुलाईमासः (हि.स.)। प्रजापिता-ब्रह्माकुमारी-ईश्वरीय-विश्वविद्यालयस्य चिकित्साविभागेन भारत-सर्वकारस्य सामाजिक-न्याय-अधिकारिता-मन्त्रालयेन च संयुक्त-तत्त्वावधानेन रविवासरे हरमू-रोड-स्थिते चौधरी-बागान-सेवा-केन्द्रे सञ्चाल्यमानस्य नशामुक
कार्यक्रम में मौजूद अतिथियों की तस्वीर


राञ्चीनगरम्, १२ जुलाईमासः (हि.स.)। प्रजापिता-ब्रह्माकुमारी-ईश्वरीय-विश्वविद्यालयस्य चिकित्साविभागेन भारत-सर्वकारस्य सामाजिक-न्याय-अधिकारिता-मन्त्रालयेन च संयुक्त-तत्त्वावधानेन रविवासरे हरमू-रोड-स्थिते चौधरी-बागान-सेवा-केन्द्रे सञ्चाल्यमानस्य नशामुक्त-भारत-अभियानस्य दशकोटि-नशामुक्ति-प्रतिज्ञा-महाभियानेन सह शुभारम्भः कृतः।

अस्मिन्नवसरे गोविन्दराम-कटारुका-विद्यालयस्य प्रधानााचार्या शिप्रा अवदत् यत् यूनां उज्ज्वलं भविष्यं शिक्षया सह उत्तमसंस्कारैः स्वस्थजीवनशैल्या च अवलम्बते। वर्धमाना नशासक्तिप्रवृत्तिः समाजस्य कृते गम्भीरा समस्या अस्ति, यस्याः प्रभावी-प्रतिरोधः केवलं जनजागरूकतायाः माध्यमेन एव सम्भवति।

जवाहर-नवोदय-विद्यालयस्य उपप्रधानाचार्यः प्रदीपकुमारसिंहः अवदत् यत् अद्य मादकद्रव्यं युवानः दासतां नयति। तस्मात् विमुक्तये मानसिक-जागरूकता अत्यावश्यकी अस्ति।

अस्मिन्नवसरे विशिष्टातिथिरूपेण उपस्थिता ब्रह्माकुमारी निर्मला-भगिनी अवदत् यत् अभियानस्य अन्तर्गतं देशस्य ३७२ जनपदेषु विद्यालयैः, महाविद्यालयैः, विश्वविद्यालयैः तथा सामाजिक-संस्थाभिः माध्यमीकृत्य दशकोटि-जनान् नशामुक्तेः संकल्पं कारयितुं लक्ष्यं निर्धारितम् अस्ति।

सा पुनरवदत् यत् राजयोग-ध्यानम् नशासक्तेः विमुक्तौ सहायकम् अस्ति। शिक्षकैरपि राजयोगः मानसिक-दृढतायाः प्रभावी साधनमिति उक्तम्। नशायाः दुष्प्रभावान् विषयीकृत्य नाट्यप्रस्तुतिः अपि अभवत् तथा च अग्रिम-जनजागरूकता-गतिविधीनां रूपरेखाविषये सभापि आयोजिता। अस्मिन्नवसरे अनेके गणमान्यजनाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan