Enter your Email Address to subscribe to our newsletters

- देश-विदेशयोः उद्योगजगतः, निवेशकानां नीतिविशेषज्ञानां च भविष्यति संगमः
भोपालम्, 12 जुलाईमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डा. मोहन यादवः सोमवासरे, १३ जुलै दिवसे, भोपालनगरे एमपी टेक ग्रोथ कॉन्क्लेव ३.० जीसीसी, डाटा सेन्टर तथा सेमिकण्डक्टर इत्यस्य शुभारम्भं करिष्यति। सः राज्यसर्वकारस्य प्रौद्योगिकी आधारित औद्योगिकविकासस्य दृष्टिकोणं प्रस्तोष्यति तथा उद्योगजगतः प्रतिनिधिभिः सह एकैकशः उपवेशनं कृत्वा निवेशः, परियोजनानां क्रियान्वयनम् तथा भाविसहकार्यस्य सम्भावनाः इत्येतासां विषये विचारविमर्शं करिष्यति।
जनसम्पर्काधिकारिणी जूही श्रीवास्तवा रविवासरे अवदत् यत् मुख्यमन्त्री डा. यादवः कॉन्क्लेव परिसरस्थां प्रदर्शनीमपि अवलोकयिष्यति। विज्ञानप्रौद्योगिकीविभागेन आयोज्यमानस्य टेकग्रोथ कॉन्क्लेव ३.० इत्यस्य उद्देश्यः उच्चविकासयुक्तेषु प्रौद्योगिकीक्षेत्रेषु निवेशस्य प्रवेगवर्धनं तथा ग्लोबल कैपेबिलिटी सेन्टर, डाटा सेन्टर एवं सेमिकण्डक्टर क्षेत्रेषु मध्यप्रदेशस्य देशस्य प्रमुखनिवेशगन्तव्यरूपेण प्रतिष्ठापनम् अस्ति।
सा अवदत् यत् कॉन्क्लेवे मध्यप्रदेशस्य प्रौद्योगिकीविकासयात्रायाः विषये विशेषप्रस्तुतिः भविष्यति। अग्रणीकम्पनीनां विशेषज्ञाः जीसीसी विस्तारः, डाटा सेन्टर विकासः तथा सेमिकण्डक्टर परिसंस्थानसम्बद्धानां अवसराणां विषये स्वविचारान् प्रस्तोष्यन्ति। कार्यक्रमे विविधाः रणनीतिकसहभागिताः तथा समझौतापत्राणां आदानप्रदानमपि भविष्यति, ये राज्यस्य प्रौद्योगिकी परिसंस्थानं अधिकं सुदृढं कर्तुं महत्त्वपूर्णां भूमिकां निर्वक्ष्यन्ति।
कॉन्क्लेवे सेमिकण्डक्टर, ग्लोबल कैपेबिलिटी सेन्टर तथा डाटा सेन्टर इत्येषु विषयेषु केन्द्रिताः गोलमेजचर्चाः आयोजयिष्यन्ते। तासु वरिष्ठाः उद्योगप्रतिनिधयः, नीतिनिर्मातारः तथा शिक्षाविदः राज्ये निवेशसम्भावनाः, कुशलमानवसम्पदः, औद्योगिकाधोसंरचना, नीतिसहयोगः तथा भावी आवश्यकताः इत्यादिषु विचारविमर्शं करिष्यन्ति। चर्चायाः प्रमुखविषयेषु मध्यप्रदेशे एकीकृतस्य इलेक्ट्रॉनिक्स तथा सेमिकण्डक्टर परिसंस्थानस्य विकासः, राज्यस्य भारतस्य अग्रिमप्रमुख जीसीसी गन्तव्यरूपेण प्रतिष्ठापनम् तथा डिजिटल अधोसंरचनायाः सुदृढीकरणं समाविष्टम् अस्ति।
जनसम्पर्काधिकारिणी अवदत् यत् कॉन्क्लेवे देशविदेशयोः अग्रणीप्रौद्योगिकीकम्पनीनां, उद्योगसङ्घटनानां, निवेशकानां, स्टार्टअप संस्थानानां, इनक्यूबेटर संस्थानानां, अनुसन्धापनशैक्षणिकसंस्थानानां तथा नीतिविशेषज्ञानां सहित विविधक्षेत्राणां प्रतिनिधयः सहभागिनः भविष्यन्ति। सीटीआरएलएस डाटासेन्टर्स, केन्स टेक्नोलॉजीस, फुजियामा पॉवर तथा न्योबोल्ट लिमिटेड इत्यादीनां प्रतिष्ठितसंस्थानानां प्रतिनिधयः विविधेषु प्रौद्योगिकीक्षेत्रेषु निवेशसहकार्ययोः सम्भावनानां विषये स्वविचारान् प्रस्तोष्यन्ति। प्रमुखशैक्षणिकसंस्थानानि अपि नवाचारः, अनुसन्धानम्, कौशलविकासः तथा उद्योगशैक्षणिकसहयोगः इत्येषु आयोजितेषु सत्रेषु सहभागित्वं करिष्यन्ति।
सा अवदत् यत् एमपी टेक ग्रोथ कॉन्क्लेवस्य पूर्वौ द्वौ संस्करणौ राज्ये प्रौद्योगिकी निवेशाय नवीनां गतिं प्रदत्तवन्तौ। कॉन्क्लेव १.० मध्ये विंशतिसहस्रकोटिरूप्यकेभ्यः अधिकाः निवेशप्रस्तावाः प्राप्ताः, येभ्यः प्रायः पञ्चसप्ततिसहस्रं जीविकावसराः स्रष्टाः। कॉन्क्लेव २.० मध्ये द्वादशसहस्रकोटिरूप्यकेभ्यः अधिकाः निवेशाः प्राप्ताः, येभ्यः प्रायः अष्टचत्वारिंशत्सहस्रं जीविकावसराः स्रष्टाः। कॉन्क्लेव ३.० इत्यस्य उद्देश्यः एतां निवेशयात्रां नवीनोच्चतां प्रति नेतुं तथा रणनीतिकप्रौद्योगिकीक्षेत्रेषु उद्योगानां सहभागितां अधिकं सुदृढां कर्तुम् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani