‘विकसितभारतस्य’ लक्ष्यं जनसहभागितया साकारं करिष्यति भाजपासङ्गठनम् - तरुण-चुघः
– महाराष्ट्रस्य कृषकाणां ऋणमुक्ति-योजनायै चुघेन मुख्यमन्त्रिणे फडणवीस-महोदयाय अभिनन्दनं प्रदत्तम्, पञ्जाब-सर्वकारं प्रति प्रहारः कृतः देहरादूननगरम्, १२ जुलाईमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रीयमहामन्त्री राज्यसभासांसदश्च तरुण-चुघः अवदत् यत् प
भारतीय जनता पार्टी (भाजपा) के राष्ट्रीय महामंत्री एवं राज्यसभा सांसद तरुण चुग को मुख्यमंत्री धामी और प्रदेश अध्यक्ष प्रतीक चिन्ह भेंट करते हुए।


– महाराष्ट्रस्य कृषकाणां ऋणमुक्ति-योजनायै चुघेन मुख्यमन्त्रिणे फडणवीस-महोदयाय अभिनन्दनं प्रदत्तम्, पञ्जाब-सर्वकारं प्रति प्रहारः कृतः

देहरादूननगरम्, १२ जुलाईमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रीयमहामन्त्री राज्यसभासांसदश्च तरुण-चुघः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्र-मोदिनः नेतृत्वे ‘विकसितभारतस्य’ लक्ष्यं जन-सहभागितया साकारं कर्तुं भाजपा-सङ्गठनस्य महत्त्वपूर्णा भूमिका भविष्यति। तेन उक्तं यत् उत्तराखण्डे ‘सेवैव सङ्गठनम्’ इति भावना निरन्तरं सुदृढा भवति।

रविवासरे माध्यमप्रतिनिधिभिः सह संवादे तरुण-चुघः महाराष्ट्रसर्वकारेण कृषकेभ्यः ३६,५८५ कोटिरूप्यकाणां ऋणमुक्ति-योजनायाः प्रवर्तनार्थं मुख्यमन्त्रिणे देवेन्द्र-फडणवीस-महोदयाय अभिनन्दनम् अयच्छत्। तेन उक्तं यत् अयं निर्णयः लक्षशः कृषकाणां कृते सौविध्यं प्रदास्यति तथा च प्रधानमन्त्रिणः मोदिनः नेतृत्वयुक्तस्य द्विचक्र-सर्वकारस्य कृषकहितैषिणीं नीतिं प्रदर्शयति। तेन एतत् द्विचक्र-सर्वकारस्य कृषकहितैषिण्याः नीत्याः उत्कृष्टम्-उदाहरणम् इति कथितम्।

श्री-चुघः पञ्जाबस्य मुख्यमन्त्रिणः भगवन्त-मान-महोदयस्य सर्वकारम् अपि लक्ष्यीकृत्य अवदत् यत् कृषकाणां सम्पूर्ण-ऋणमुक्तेः निर्वाचन-प्रतिज्ञा कदा पूरयिष्यते इति स्पष्टतया वक्तव्यम्। तेन आरोपः कृतः यत् पञ्जाबस्य कृषकाः अद्यापि ऋणभारस्य कृषिसंकटस्य च सम्मुखिना: भवन्ति, यदा तु सर्वकारः स्वप्रतिज्ञानां पूरणे विफलः जातः।

सभायाः पूर्वं तरुण-चुघः मुख्यमन्त्रिणा पुष्करसिंह-धामिना तथा प्रदेशाध्यक्षेन महेन्द्र-भट्टेन सह मिलित्वा ‘विकसित-भारतस्य’ लक्ष्यं, जनसहभागिता तथा सङ्गठनस्य अधिकसशक्तीकरणम् इत्यादिषु विषयेषु विचारविमर्शम् अकरोत्।

देहरादूने आयोजितायां भाजपासङ्गठनस्य सङ्गठनात्मक-सभायां तरुण-चुघः प्रदेशे सञ्चाल्यमानानां सङ्गठनात्मक-कार्यक्रमाणां समीक्षां कृत्वा आगामि-कार्ययोजनायाः विषये पदाधिकाऱिणः मार्गदर्शनम् अकरोत्। अस्यां सभायां मुख्यमन्त्री पुष्करसिंह-धामी, प्रदेशाध्यक्षः राज्यसभासांसदः महेन्द्र-भट्टः, पूर्वसांसदः जमयाङ्ग-सेरिङ्ग-नामग्यालः तथा पक्षस्य वरिष्ठनेतारः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan