Enter your Email Address to subscribe to our newsletters

हरिद्वारनगरम्, १२ जुलाईमासः (हि.स.)। साध्वी-ऋतम्भरायाः शिष्यः स्वामी सत्यश्रेयानन्द-गिरिः निरञ्जनी-अखाडा-इत्यस्य महामण्डलेश्वर-पदेन अलङ्कृतः। कनखल-स्थिते बेङ्कट-हॉल-नाम्नि स्थले शनिवासरे आयोजिते भव्य-पट्टाभिषेक-समारोहे वैदिक-मन्त्र-उच्चारणेन, तिलक-धारणेन, प्रावार-समर्पणेन तथा पुष्पवृष्ट्या सह तस्य महामण्डलेश्वर-पदे अभिषेकः कृतः। समारोहस्य अध्यक्षतां आनन्द-पीठाधीश्वरः आचार्य-महामण्डलेश्वरः स्वामी बालकानन्द-महाराजः अकरोत्।
मुख्यातिथिः निरञ्जन-पीठाधीश्वरः आचार्य-महामण्डलेश्वरः स्वामी कैलाशानन्द-गिरि-महाराजः अवदत् यत् महामण्डलेश्वरः सत्यश्रेयानन्द-गिरिः विद्वान् सन्तः अस्ति। सः सन्त-परम्परां अखाडा-मर्यादां च पालयन् सनातनधर्मस्य सुदृढीकरणे योगदानं दास्यति। अखाडा-परिषदः अध्यक्षः श्रीमहन्तः रविन्द्रपुरी अवदत् यत् धर्मरक्षणार्थम् आदिगुरुणा शङ्कराचार्येण अखाडानां स्थापना कृता आसीत्। महामण्डलेश्वरस्य पदं केवलं गौरवस्य न, अपितु दायित्वस्य अपि प्रतीकम् अस्ति। स्वामी सत्यश्रेयानन्द-गिरिः धर्मरक्षणे, सनातनधर्मस्य प्रचार-प्रसारे तथा अखाडस्य उन्नत्यां महत्त्वपूर्णं योगदानं दास्यति।
साध्वी-ऋतम्भरा आशीर्वचनं दत्त्वा अवदत् यत् सनातनस्य संन्यास-परम्परा अद्भुता अस्ति। युवा-महामण्डलेश्वरः मानवकल्याणाय तथा सनातन-संस्कृतेः प्रचार-प्रसाराय सक्रियां भूमिकां निर्वहिष्यति। नवनियुक्तः महामण्डलेश्वरः स्वामी सत्यश्रेयानन्द-गिरिः सर्वेषां सन्तानाम् आभारं प्रकटयन् अवदत् यत् सः दीदी-मातु: साध्वी-ऋतम्भरायाः प्राप्त-शिक्षाणां तथा श्रीमहन्त-रविन्द्रपुरी-महाराजस्य मार्गदर्शनस्य अनुसरणं कुर्वन् सनातनधर्मस्य संरक्षणेन सह युवा-सन्तान् समादाय समाजस्य सांस्कृतिकैकतां सुदृढां करिष्यति। अस्मिन्नवसरे पूर्व-केन्द्रीयमन्त्री साध्वी निरञ्जन-ज्योतिः, मध्यप्रदेशस्य मन्त्रिणी सावित्री-ठाकुरः, राज्यमन्त्री राजेश-अग्रवालः, महापौरः किरण-जैसलः तथा अनेके सन्त-महन्तः गणमान्यजनाश्च उपस्थिताः आसन्।
कार्यक्रमस्य सञ्चालनम् अखिलभारतीय-अखाडा-परिषदः तथा मनसा-देवी-मन्दिर-न्यासस्य अध्यक्षः श्रीमहन्तः रविन्द्रपुरी-महाराजः अकरोत्। अस्मिन्नवसरे त्रयोदश-अखाडानां सन्त-महापुरुषाः, पञ्च-परमेश्वराः तथा बहुसंख्यकाः श्रद्धालवः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan