असमाय स्वक्रिकेटमंचस्य लंबात् समयात् आसीत् प्रतीक्षा : एसीए अध्यक्ष तरंग गोगोईः
गुवाहाटी, 13 जुलाईमासः (हि.स.)। असम प्रीमियर लीग इत्यस्य प्रथमसंस्करणस्य कृते क्रीडकाणां नीलामी जुलैमासस्य १९ दिनाङ्के गुवाहाटीनगरस्थिते एसीए क्रीडाङ्गणस्य ९१ यार्ड्स क्लबे आयोजिता भविष्यति। अस्यां नीलाम्यां समग्रासमराज्यात् पञ्जीकृताः २७५ क्रीडक
Representative Image.


गुवाहाटी, 13 जुलाईमासः (हि.स.)।

असम प्रीमियर लीग इत्यस्य प्रथमसंस्करणस्य कृते क्रीडकाणां नीलामी जुलैमासस्य १९ दिनाङ्के गुवाहाटीनगरस्थिते एसीए क्रीडाङ्गणस्य ९१ यार्ड्स क्लबे आयोजिता भविष्यति। अस्यां नीलाम्यां समग्रासमराज्यात् पञ्जीकृताः २७५ क्रीडकाः अष्टाभिः फ्रेञ्चैजीसंस्थाभिः स्वस्वदलनिर्माणार्थं स्पर्धया ग्राह्याः भविष्यन्ति।

असम क्रिकेट सङ्घस्य अध्यक्षः तरङ्ग गोगोई अवदत् यत् जुलैमासस्य १९ दिनाङ्के सम्पन्ना एषा नीलामी अस्याः प्रतियोगितायाः वास्तविकं क्रीडककेन्द्रितस्वरूपं प्रकाशयिष्यति। तेन उक्तं यत् असमराज्यस्य सर्वेभ्यः जिल्लेभ्यः क्रीडकाः स्वनामानि पञ्जीकृतवन्तः सन्ति तथा च शीघ्रमेव तेषां ज्ञास्यते यत् ते कस्याः फ्रेञ्चैजीसंस्थायाः प्रतिनिधित्वं करिष्यन्ति। तेन विश्वासः व्यक्तः यत् आगस्तमासस्य १ दिनाङ्कात् आरभ्यमाणा एषा लीगा राज्यस्य प्रत्येकेन क्रिकेटप्रेमिणा स्वकीयप्रतियोगितारूपेण स्वीकरिष्यते। गोगोई अवदत् यत् असमराज्यं दीर्घकालात् स्वकीयस्य क्रिकेटमञ्चस्य प्रतीक्षां कुर्वत् आसीत् तथा च एसीए प्रथमसंस्करणं संस्मरणीयं कर्तुं पूर्णसमर्पणेन कार्यं करोति।

मार्की क्रीडकानां सूच्यां डेनिश दास, शिवशङ्कर रॉय, सुमित कश्यप, स्वरूपम पुरकायस्थ, जितुमनी कलिता, मृण्मय दत्ता, मुक्तार हुसैन, अविनव चौधरी, राहुल सिंह, सदाक हुसैन, भार्गव प्रतिम लहकर, साहिल जैन, प्रद्युन सैकिया, सौरव मौसुम दिहिंगिया, अब्दुल अजीज कुरैशी, आकाश सेनगुप्ता, आयुष्मान मालाकर, सुमित घाडीगांवकर, रोहित सेन तथा रुहिनन्दन पेगु इत्येते समाविष्टाः सन्ति।

एते सर्वे क्रीडकाः असमराज्यस्य प्रतिनिधित्वेन बीसीसीआई प्रतियोगितासु क्रीडितवन्तः सन्ति। उद्घाटनसंस्करणस्य दलनिर्माणे एतेषां क्रीडकानां कृते सर्वोच्चा बोली लगिष्यते इति अपेक्ष्यते। असम प्रीमियर लीगस्य प्रथमसंस्करणम् आगस्तमासस्य १ दिनाङ्कात् प्रारभ्यते।

---------

Hindusthan Samachar / Dheeraj Maithani