Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १४ जुलाईमासः (हि.स.)। चलचित्र-निर्माता बोनी-कपूरस्य पुत्री अंशुला-कपूरः अद्यतनकाले रोहन-ठक्कर: इत्यनेन सह वैवाहिक-बन्धने आबद्धा अभवत्। जुलाईमासस्य षष्ठ-दिनाङ्के परिवारस्य निकट-स्वजनानां च सन्निधौ सम्पन्न-विवाहानन्तरं उभावपि मुम्बई-नगरे भव्यं स्वागत-समारोहम् आयोजितवन्तौ। पुत्र्याः विवाहानन्तरं बोनी-कपूरः सामाजिक-माध्यमेषु भावपूर्णं सन्देशं प्रकाशित्य स्वस्य हर्षं भावनाश्च व्यक्तवान्।
बोनी-कपूरः इन्स्टाग्राम-माध्यमे विवाह-स्वागत-समारोहयोः अनेकानि चित्राणि प्रसार्य लिखितवान्—“मम प्रतिभा-शालिनी-पुत्र्याः अंशुलायाः रोहन-ठक्करेण सह विवाहं द्रष्टुं मम जीवनस्य अविस्मरणीयः क्षणः आसीत्, यं अहं सर्वदा स्मृतौ धारयिष्यामि।” तस्य अस्य भावपूर्ण-सन्देशस्य सामाजिक-माध्यमेषु प्रशंसकैः बहु प्रशंसा कृता। सः पुत्र्याः नूतन-जीवनाय शुभकामनाः अपि प्रदत्तवान्।
स्वागत-समारोहे कपूर-परिवारस्य अतिरिक्तं चलचित्र-जगतः अनेके विख्याताः व्यक्तयः उपस्थिताः आसन्। प्रकाशितेषु चित्रेषु अभिनेता आमिर-खानः स्वभार्यया गौरी-स्प्रैट इत्यनया सह दृष्टः। तदतिरिक्तं माधुरी-दीक्षितः डॉ. श्रीराम-नेने च, अक्षय-खन्ना, जैकी-श्रॉफः, हेमा-मालिनी, जावेद-जाफरी, सोनू-निगमः, बॉबी-देओलः च सहिताः अनेकाः चलचित्र-कलाकाराः नवदम्पत्योः शुभकामनाः प्रदत्तवन्तः।
अंशुला-कपूरस्य रोहन-ठक्करस्य च विवाहस्य चित्राणि चलचित्राणि च सामाजिक-माध्यमेषु निरन्तरं व्यापकतया प्रसार्यन्ते। परिवारस्य मित्राणां च उपस्थितौ सम्पन्नस्य अस्य समारोहस्य प्रदर्शिन्यः अपि प्रशंसकैः अत्यन्तं प्रशंस्यन्ते। बोनी-कपूरस्य भावपूर्णः सन्देशः अस्य विशेष-अवसरस्य स्मरणीयतां अधिकां कृतवान्।
Hindusthan Samachar / Divya Ranjan