‘आरएडब्लू एनटीआर’ इति सङ्घटनेन सह जूनियर-एनटीआर इत्यस्य कश्चन सम्बन्धो नास्ति - अभिनेतुः दलम्
नवदिल्ली, १४ जुलाईमासः (हि.स.)। अभिनेता जूनियर-एनटीआर इत्यस्य दलं तस्य नाम्ना सञ्चाल्यमानस्य ‘आरएडब्लू एनटीआर’ इति सङ्घटनस्य विषये आधिकारिकं वक्तव्यं प्रकाशितवत्। दलेन स्पष्टीकृतं यत् अभिनेतुः अथवा तस्य कार्यालयस्य अस्मिन् सङ्घटनेन सह कश्चन सम्बन्ध
जूनियर एनटीआर - फोटो सोर्स एक्स


नवदिल्ली, १४ जुलाईमासः (हि.स.)। अभिनेता जूनियर-एनटीआर इत्यस्य दलं तस्य नाम्ना सञ्चाल्यमानस्य ‘आरएडब्लू एनटीआर’ इति सङ्घटनस्य विषये आधिकारिकं वक्तव्यं प्रकाशितवत्। दलेन स्पष्टीकृतं यत् अभिनेतुः अथवा तस्य कार्यालयस्य अस्मिन् सङ्घटनेन सह कश्चन सम्बन्धो नास्ति। एतदपि उक्तं यत् एतत् सङ्घटनं तेन अधिकृतं नास्ति, न च तस्मै अभिनेतुः प्रतिनिधित्वं कर्तुं तस्य नाम्नः उपयोगस्य वा अनुमतिः प्रदत्ता।

प्रकाशिते वक्तव्ये उक्तं यत् ‘आरएडब्लू एनटीआर’ इति सङ्घटनस्य केषाञ्चित् गतिविधिभिः जनानां मनसि एषः भ्रमः जायेत यत् तस्य जूनियर-एनटीआर इत्यनेन सह आधिकारिकः सम्बन्धः अस्ति। दलेन स्पष्टीकृतं यत् अभिनेतुः सम्बन्धिनः दानकार्यक्रमाः, सामाजिक-उपक्रमाः, कार्यक्रमाः, आधिकारिक-घोषणाः अथवा अन्याः अद्यतन-सूचनाः केवलं तस्य सत्यापित-सामाजिक-माध्यम-लेखाभ्यः तथा अधिकृत-दलस्य माध्यमेन एव प्रकाशिताः भविष्यन्ति।

दलेन माध्यम-संस्थानानि, डिजिटल-मञ्चान् तथा प्रशंसकान् प्रति आह्वानं कृतं यत् अनधिकृत-व्यक्तिभिः अथवा सङ्घपनैः प्रसारितायाः सूचनायाः उपरि विश्वासः न क्रियताम्, अप्रमाणितां सूचनां च अग्रे न प्रसार्यताम्। वक्तव्ये उक्तं यत् मिथ्या-सूचनाः अफवाहाश्च न केवलं भ्रमं जनयन्ति, अपितु प्रशंसकान् अपि विपथं नयन्ति।

अन्ते जूनियर-एनटीआर-दलेन स्पष्टीकृतं यत् अस्मिन् विषये प्रकाशितमिदं तेषाम् अन्तिमम् आधिकारिकं वक्तव्यम् अस्ति। दलेन आशा व्यक्ता यत् अस्य स्पष्टीकरणस्य अनन्तरं दुष्प्रचारा: तथा भ्रान्तयः विरमिष्यन्ति। अन्ते दलेन प्रशंसकानां माध्यम-संस्थानानां च सहयोगाय समर्थनाय च कृतज्ञता व्यक्ता तथा उक्तं यत् भविष्ये अभिनेतुः सम्बन्धिनी सर्वा आधिकारिक-सूचना केवलं तस्य सत्यापित-अधिकृत-माध्यमेभ्यः एव प्रकाशिष्यते।

Hindusthan Samachar / Divya Ranjan